Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 19 सितंबरमासः (हि.स.)। उदासीनसम्प्रदायस्य आचार्यस्य भगवान् श्रीचन्द्रमहाराजस्य ५३२तमजयन्त्युत्सवः शनिवासरे श्रीपञ्चायतीअखाडा नवउदासीन इत्यत्र श्रद्धया हर्षोल्लासेन च आचरितः। अस्मिन् अवसरे विशेषपूजाऽर्चनं, सन्तसम्मेलनं, विशालभण्डारश्च आयोजितः। विभिन्नानाम् अखाडानां सन्तैः, महन्तैः, महामण्डलेश्वरैश्च तेषाम् आदर्शान् जनसामान्येषु प्रसारयितुं संकल्पः स्वीकृतः।
कार्यक्रमस्य प्रारम्भः भगवान् श्रीचन्द्रमहाराजस्य पूजाऽर्चनेन अभवत्। सन्तैः देशस्य समाजस्य च सुखसमृद्धेः कामना कृता। सन्तसम्मेलने महापुरुषैः तेषां जीवनस्य, दर्शनस्य, मानवकल्याणे योगदानस्य च विषये प्रकाशः प्रक्षिप्तः। अखिलभारतीयअखाडापरिषदः राष्ट्रियाध्यक्षः श्रीपञ्चायतीअखाडामहानिर्वाणी इत्यस्य सचिवश्च श्रीमहन्तः रविन्द्रपुरीमहाराजः अवदत् यत् भगवान् श्रीचन्द्रस्य जीवनं त्यागस्य तपस्यायाः मानवसेवायाश्च सन्देशं प्रददाति। तेषां शिक्षाः अद्यापि प्रासङ्गिकाः सन्ति। सनातनपरम्परां तेषां विचारांश्च नूतनसन्ततिं प्रति प्रेषयितुं सन्तसमाजस्य दायित्वम् अस्ति।
महामण्डलेश्वरः करौलीशङ्करमहाराजः अवदत् यत् तेन आध्यात्मिकसाधनया सह लोककल्याणं जीवनस्य उद्देश्यम् अङ्गीकृतम्। तेषां शिक्षाः सत्यस्य, संयमस्य, सेवायाः सदाचारस्य च प्रेरणां प्रददति।
अखाडस्य अध्यक्षः धूनीदासमहाराजः मुखियामहन्तः भगतराममहाराजश्च अवदताम् यत् जयन्त्युत्सवः तेषाम् आदर्शान् स्वजीवने आत्मसात्कर्तुम् अवसरः अस्ति।
अस्मिन् अवसरे महन्तः जगतारमुनिः, कोठारी नितिनदासः, मुखियामहन्तः मङ्गलदासः, आकाशमुनिः, महामण्डलेश्वरः योगेन्द्रानन्दः, राजशेखरानन्दः, रामनौमीदासः इत्यादयः बहवः सन्तः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं रविदेवशास्त्रिणा कृतम्।
Hindusthan Samachar / Dheeraj Maithani