Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 19 सितंबरमासः (हि.स.)।
पतञ्जलिविश्वविद्यालये आगामी द्विपञ्चाशत्तमस्य अखिलभारतीयप्राच्यविद्यासम्मेलनस्य सज्जतां दृष्ट्वा महत्त्वपूर्णा उपवेशनम् आयोजितम्। त्रिदिवसीयस्य सम्मेलनस्य आयोजनं २९ अक्तूबरतः ३१ अक्तूबरपर्यन्तं पतञ्जलिविश्वविद्यालये करिष्यते। अस्मिन् वर्षे सम्मेलनस्य मुख्यविषयः “योगः, आयुर्वेदः तथा अन्याः प्राचीनाः चिकित्सापद्धतयः” इति निर्धारितः अस्ति।
उपवेशने सम्मेलनस्य सुव्यवस्थितसफलसञ्चालनाय विभिन्नसमितीनां गठनं कृत्वा प्रभारिभ्यः दायित्वानि समर्पितानि। पूर्वगठितसमितीनां कार्याणां समीक्षा कृता तथा आवश्यकतानुसारं दायित्वानां पुनर्वितरणमपि कृतम्।
सम्मेलने योगस्य, आयुर्वेदस्य, भारतीयचिकित्सापद्धतेः, आध्यात्मिकपक्षस्य, वैज्ञानिकानुसन्धानस्य, आधुनिकस्वास्थ्यव्यवस्थायाः, योगमनोविज्ञानस्य, समेकितचिकित्सायाश्च इत्यादिविषयेषु देशविदेशेभ्यः आगतैः विद्वद्भिः शोधार्थिभिश्च विचारविमर्शः करिष्यते। विद्वद्भ्यः, विद्यार्थिभ्यः, अध्यापकेभ्यः शोधार्थिभ्यश्च पञ्जीकरणप्रक्रिया प्रारब्धा अस्ति।
अखिलभारतीयप्राच्यविद्यासम्मेलनस्य स्थापना १९१९ तमे वर्षे अभवत्। एकशताब्द्याः अधिककालात् एतत् मञ्चं भारतीयज्ञानपरम्परायाः, दर्शनस्य, संस्कृतेः, साहित्यस्य, भाषाणाम्, इतिहासस्य, प्राच्यविद्यानां च अध्ययनसम्बद्धान् विदुषः एकत्र संयोजयितुं कार्यं कुर्वत् अस्ति।
उपवेशने पञ्जीकरणस्य, अतिथिसत्कारस्य, आवासभोजनव्यवस्थायाः, परिवहनस्य, तान्त्रिकप्रबन्धनस्य, शोधपत्राणां सत्रसञ्चालनस्य, प्रचारप्रसारस्य, माध्यमव्यवस्थायाः सांस्कृतिककार्यक्रमाणां च व्यवस्थाः समीक्षिताः।
उपवेशने प्रतिकुलपतिः साध्वी देवप्रिया, क्रयसमित्याः अध्यक्षा अंशुला, सम्प्रेषणप्रमुखा पारुला, वित्ताधिकारी सीए ऋचा भगता, सङ्कायाध्यक्षः प्रोफेसरः मयङ्क अग्रवालः सहितं कुलसचिवः, उपकुलसचिवः, परीक्षानियन्त्रकः, अधिष्ठातारः, विभागाध्यक्षाः छात्रप्रतिनिधयश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani