Enter your Email Address to subscribe to our newsletters



-एम्स रायपुरस्य तृतीय दीक्षांत समारोहे मेधावीच्छात्रेभ्यः दत्तानि स्वर्णपदकानि
रायपुरम्, 02 सितंबरमासः (हि.स.)।
उपराष्ट्रपतिः सी पी राधाकृष्णन् रायपुरस्थिते अखिलभारतीयायुर् विज्ञानसंस्थाने एम्स इत्यस्य तृतीयदीक्षान्तसमारोहे सम्बोधनं कुर्वन् अवदत् यत् छत्तीसगढराज्यं नक्सलवादस्य भयस्य च अभावस्य छायातः निष्क्रम्य अद्य शान्तेः प्रगतेः अवसरानां च नवयुगे प्रविष्टम् अस्ति। ये प्रदेशाः कदाचित् हिंसायै प्रसिद्धाः आसन्, तत्र अद्य मार्गाः विद्यालयाः चिकित्सालयाः सम्पर्कसुविधाः निवेशश्च प्राप्यन्ते।
उपराष्ट्रपतिः एम्स रायपुरं राज्यस्य स्वास्थ्यसेवासु ऐतिहासिकपरिवर्तनस्य प्रमुखं प्रतीकं वर्णितवान्। सः अवदत् यत् उन्नतस्वास्थ्यसेवायाः चिकित्सानुसन्धानस्य प्रत्यारोपणचिकित्सायाश्च क्षेत्रेषु संस्थानस्य उपलब्धयः प्रशंसनीयाः सन्ति। एतासु उपलब्धिषु राज्यस्य प्रथमं स्वैप् वृक्कप्रत्यारोपणमपि अन्तर्भवति।
समारोहे उपराष्ट्रपतिना विभिन्नसंकायानां मेधाविभ्यः छात्रेभ्यः छात्राभ्यश्च उत्कृष्टशैक्षणिकोपलब्धीनां कृते स्वर्णपदकानि प्रमाणपत्राणि च प्रदाय सम्मानः कृतः। मध्यभारतस्य अस्मिन् प्रतिष्ठितसंस्थाने आयोजिते समारोहे स्नातक स्नातकोत्तर अतिविशेषज्ञता डॉक्टरेट् तथा सम्बद्धस्वास्थ्यविज्ञानपाठ्यक्रमाणां कुलं ६८९ विद्यार्थिभ्यः दीक्षोपाधयः प्रदत्ताः। तेषु ३७६ छात्राः ३१३ छात्राश्च आसन्।
दीक्षान्तसमारोहस्य प्रमुखेषु आकर्षणेषु नशायै न इति शपथग्रहणमपि आसीत्। अस्याः शपथस्य अन्तर्गतं उपस्थितैः सर्वैः विद्यार्थिभिः स्वयं मादकद्रव्यसेवनात् दूरं स्थातुं तथा च स्वसहपाठिषु समाजे च मादकद्रव्याणां दुष्प्रभावानां संकटानां च विषये व्यापकं जनजागरणं प्रसारयितुं संकल्पः गृहीतः।
अस्मिन् अवसरे छत्तीसगढस्य राज्यपालः रमेन डेका केन्द्रीयस्वास्थ्यपरिवारकल्याणराज्यमन्त्री अनुप्रिया पटेल राज्यस्य स्वास्थ्य मन्त्री श्यामबिहारी जायसवाल तथा रायपुरस्य सांसदः बृजमोहन अग्रवालः उपस्थिताः आसन्। एम्स रायपुरस्य अध्यक्षः प्रोफेसर डाक्टर संजीव हांडा तथा कार्यकारीनिदेशकः निवृत्तः लेफ्टिनेन्ट जनरल अशोक जिंदलः अपि मञ्चे उपस्थितौ आस्ताम्।
------
Hindusthan Samachar / Dheeraj Maithani