Enter your Email Address to subscribe to our newsletters

अयोध्या, ०२ सेप्टेम्बरमासः (हि.स.)। मन्दिरं मन्दिरेण संयोजयितुं क्रियमाणस्य अभिनवाभियानस्य शुभारम्भः बुधवासरे श्रीरामजन्मभूमिमन्दिरात् अयोध्यायां कृतः। प्रथमवारं श्रीरामजन्मभूमिमन्दिरात् पूजितानि पुष्पाणि, वस्त्राणि, मेवामिष्टान्नानि, शृङ्गारसामग्री, मयूर-पिच्छानि, वंशिकाः इत्यादयः कृष्ण-जन्माष्टम्याः कृते अयोध्यातः मथुरां प्रेषिताः। तथैव काशीतः अपि माङ्गल्योपहारयोजनायाः अन्तर्गतं तादृशी सामग्री जन्माष्टम्याः कृते मथुरां प्रेषिता अस्ति।
कार्यक्रमस्य योजनाकारः विश्वहिन्दूपरिषदः केन्द्रीयमन्त्री राजेन्द्रसिंहपङ्कजः बुधवासरे अवदत् यत् पञ्चविंशति: कार्यकर्तृभिः सह द्वाभ्यां वाहनाभ्यां माङ्गल्यसामग्रीम् आदाय धनञ्जय-पाठकस्य नेतृत्वे इदं दलम् अद्य अयोध्यातः मथुरां प्रति प्रस्थितम्। विहिप-सङ्घटनस्य उपाध्यक्षः चम्पतरायः तथा सः स्वयं दलस्य सदस्येभ्यः आशीर्वचनं दत्त्वा तान् प्रस्थापितवन्तौ।
पदाधिकारिभिः उक्तं यत् मन्दिरं मन्दिरेण तथा च परस्परं पूजापद्धतीः संयोजयितुं कार्यम् अपि निरन्तरं प्रचलिष्यति। अन्येषां पूजापद्धतीनां कार्यक्रमेषु अपि एतादृश्येव माङ्गल्यसामग्री प्रेषयिष्यते।
Hindusthan Samachar / Divya Ranjan