(लीड) राममंदिरस्य पूर्वं कार्यकार्यधिकारिणौ पूर्व एयर मार्शल जीतेंद्र मिश्रा, गोविंद देव गिरि महासचिवः च
अयोध्या, 02 सितंबरमासः (हि.स.)। पूर्ववायुमार्शल् जीतेन्द्रमिश्रः श्रीरामजन्मभूमितीर्थक्षेत्रस्य प्रथमः मुख्यकार्यकारी-अधिकारी नियुक्तः पूर्ववायुमार्शल् जीतेन्द्रमिश्रः श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य प्रथमः मुख्यकार्यकारी-अधिकारी (सीईओ) नियुक्
श्रीराम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट की बैठक का छायाचित्र


सेवानिवृत एयर मार्शल जीतेंद्र मिश्र की फाइल फोटो


अयोध्या, 02 सितंबरमासः (हि.स.)। पूर्ववायुमार्शल् जीतेन्द्रमिश्रः श्रीरामजन्मभूमितीर्थक्षेत्रस्य प्रथमः मुख्यकार्यकारी-अधिकारी नियुक्तः

पूर्ववायुमार्शल् जीतेन्द्रमिश्रः श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य प्रथमः मुख्यकार्यकारी-अधिकारी (सीईओ) नियुक्तः अस्ति। गोविन्ददेवगिरिः महासचिवस्य दायित्वं प्राप्तवान् अस्ति। सः इदानीं कोषाध्यक्षस्य पदे आसीत्। तदतिरिक्तं न्यासे एकया महिलया सह त्रयः नवीनाः सदस्याः अपि सम्मिलिताः सन्ति। न्यासस्य बुधवासरे अत्र आयोजितायाः सभायाः अनन्तरम् एतद् घोषितम्।

तीर्थक्षेत्रन्यासेन निर्गते वक्तव्ये उक्तं यत् मिश्रः ‘ऑपरेशन-सिन्दूर’ इत्यस्मिन् पश्चिमवायुकमाण्डस्य नेतृत्वं कृतवान् आसीत्। उत्तरप्रदेशस्य देवरियाजनपदस्य निवासी मिश्रः वायुसेनायां ३९ वर्षाणां सेवां कृत्वा ३० एप्रिल् २०२६ दिनाङ्के निवृत्तः अभवत्।

न्यासे त्रयः नवीनाः सदस्याः अपि नियुक्ताः सन्ति। तेषु अयोध्याछावन्याः निवासी अधिवक्ता मदनमोहनपाण्डेयः, दिल्ली-निवासी महेशभागचन्दका तथा शिकोहाबाद-निवासिनी डॉ. निर्मला यादवः च सम्मिलिताः सन्ति। निर्मला यादवः न्यासस्य प्रथमायाः महिला-न्यासिन्याः रूपेण भविष्यति। महेशभागचन्दकायै गोविन्ददेवगिरेः स्थाने कोषाध्यक्षस्य दायित्वं समर्पितम् अस्ति।

न्यासस्य त्रयः नवीनसदस्येषु ७४ वर्षीयः मदनमोहनपाण्डेयः रामजन्मभूमेः स्वामित्वविवादप्रकरणे रामलल्लायाः पक्षतः कानूनीपैरवीकर्तृणां दलस्य सदस्यः आसीत्। इलाहाबाद-उच्चन्यायालये तथा उच्चतमन्यायालये रामजन्मभूमिसम्बद्धपक्षस्य तर्केषु तस्य महत्त्वपूर्णा भूमिका आसीत्। पाण्डेयः उत्तरप्रदेशस्य षड्वर्षपर्यन्तम् अतिरिक्तमहाधिवक्तापदम् अपि अलङ्कृतवान् आसीत्।

द्वितीयः सदस्यः ६८ वर्षीयः महेशभागचन्दका दिल्ली-निवासी व्यवसायी अस्ति। वर्षे २०२० तमे राममन्दिरस्य भूमिपूजनसमारोहे तथा २२ जनवरी २०२४ दिनाङ्के आयोजिते प्राणप्रतिष्ठासमारोहे च सः यजमानः अपि आसीत्। स्नातकपर्यन्तं शिक्षां प्राप्तवान् भागचन्दकः ‘हिन्दुत्वस्य पुरोधाः’ इति पुस्तकस्य लेखकः अस्ति। विश्वहिन्दू-आर्थिक-मञ्चस्य कार्यकारिण्याः सदस्यः भागचन्दकः रामवनगमनयात्रया सम्बद्धेषु २९२ पवित्रतीर्थस्थलेषु श्रीरामस्तम्भानां स्थापनाकार्ये अपि संलग्नः आसीत्।

न्यासस्य तृतीया सदस्यः ६६ वर्षीयाः डॉ. निर्मला यादवः शिकोहाबाद-निवासिनी अस्ति। सा न्यासस्य प्रथमा महिला-सदस्या अस्ति। हिन्दी-संस्कृतयोः परास्नातका डॉ. यादवः १९ वर्षाणि यावत् महाविद्यालयस्य प्राचार्यपदं निर्वहति स्म।

राममन्दिरे चढ़ावारूपेण प्राप्तस्य धनस्य चौर्यस्य प्रकरणं प्रकाशे आगते सति द्वितीये जुलाई-दिने न्यासस्य महासचिवः चम्पतरायः तथा न्यासी अनिलमिश्रः च स्वपदानि त्यक्तवन्तौ। तयोः त्यागपत्रयोः अनन्तरं निवृत्तः आईएफएस कृष्णमोहनः कार्यवाहक-महासचिवरूपेण नियुक्तः आसीत्। न्यासेन विगतेषु द्विमासेषु आव्हानपूर्णे काले महासचिवस्य दायित्वं सफलतया निर्वहितवते कृष्णमोहनाय प्रशंसा प्रदत्ता तथा तस्य प्रति कृतज्ञता प्रकटिता।

न्यासस्य अनुसारं सभायां चढ़ावारूपेण प्राप्तानां नगदराशीनां गणनायाः प्रक्रियायां मानवीय-हस्तक्षेपं न्यूनं कर्तुं क्रियमाणानां प्रयासानां विषये चर्चा अभवत्। द्वाभ्यां बैंकेभ्यः तथा भारतीयप्रौद्योगिकीसंस्थानेभ्यः अस्मिन् विषये कतिपयानि प्रस्तावानि प्राप्तानि सन्ति। तेषां मूल्याङ्कनं कृत्वा शीघ्रमेव प्रौद्योगिकीयसहायतया अस्मिन् दिशि प्रगतिः कर्तुं शक्यते।

न्यासेन चयनसमित्याः सदस्येभ्यः—न्यायमूर्तये (सेवानिवृत्ताय) प्रमोदकोहल्यै, लेफ्टिनेन्ट-जनरल् (सेवानिवृत्ताय) विष्णुकान्तचतुर्वेदिने, सुरेशहावड़े इत्यस्मै तथा समितेः सचिवाय समीरपाण्डाय च—अल्पकाले साढ़े पञ्चसहस्राणां आवेदनपत्राणां परीक्षणं तथा शताधिकानां आवेदकानां साक्षात्कारं कृत्वा कार्यं सम्पन्नं कर्तुं कृतस्य सहयोगस्य कृते आभारः व्यक्तः।

न्यासस्य अनुसारं वित्तवर्षे २०२५-२६ मध्ये आहत्य आयः २३७ कोटिरूप्यकाणि तथा व्ययः ९१ कोटिरूप्यकाणि अभवत्। एतदतिरिक्तं निर्माणादिकार्येषु ४२५ कोटिरूप्यकाणां पूंजीगतव्ययः अभवत्। वर्षस्य अन्ते अर्थात् ३१ मार्च् २०२६ दिनाङ्के न्यासस्य समीपे कुलम् उपलब्धा राशि १८८२ कोटिरूप्यकाणि आसीत्। ------------