काजीरङ्गायां पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणम् अनिवार्यमेव - मुख्यमन्त्री
गुवाहाटी, २ सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्व-सरमा बुधवासरे अवदत् यत् काजीरङ्गा-राष्ट्रियाभयारण्यस्य सुरक्षायै तं परितः पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणम् अनिवार्यमेव अस्ति। सः अवदत् यत् काजीरङ्गायाः संरक्षणं सामाजिक-मा
पत्रकारों से बातचीत करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


गुवाहाटी, २ सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्व-सरमा बुधवासरे अवदत् यत् काजीरङ्गा-राष्ट्रियाभयारण्यस्य सुरक्षायै तं परितः पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणम् अनिवार्यमेव अस्ति। सः अवदत् यत् काजीरङ्गायाः संरक्षणं सामाजिक-माध्यमे इन्स्टाग्राम्-मञ्चे चित्रं प्रकाशयित्वा न, अपि तु भूमौ ठोसप्रयत्नैः एव भविष्यति। बुधवासरे एकस्मिन् कार्यक्रमे भागं गृहीत्वा पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमन्त्री इदम् अवदत्।

काङ्ग्रेसदलं प्रति लक्ष्यं कृत्वा मुख्यमन्त्री अवदत् यत् काङ्ग्रेसदलस्य काजीरङ्गा-विषये वक्तुं कश्चन अधिकारः नास्ति। सः अवदत् यत् यदि काङ्ग्रेसदलं काजीरङ्गाविषये वक्तुम् इच्छति, तर्हि प्रथमं स्वकीयम् अभिवृत्तिं प्रति विचारं कुर्यात्।

सः अवदत् यत् काङ्ग्रेसस्य सांसदः गौरवगोगोई काजीरङ्गायाः सुरक्षां कर्तुं न शक्नोति। सः बलपूर्वकम् अवदत् यत् स्थानीयजनानां सहभागितया एव काजीरङ्गायाः संरक्षणं कर्तुं शक्यते।

मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अवदत् यत् काजीरङ्गायाः सुरक्षायां संरक्षणे च स्थानीयजनानां सहभागिता सर्वाधिकं महत्त्वपूर्णा अस्ति।

Hindusthan Samachar / Divya Ranjan