Enter your Email Address to subscribe to our newsletters

सीवानम्, ०२ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण सीवानस्य पूर्व-सांसदस्य ओमप्रकाशयादवस्य विषये कठोरं व्यवहारं स्वीकृत्य तस्मै कारण-दर्शिनी सूचना प्रदत्ता अस्ति।
भाजपाबिहारप्रदेशस्य प्रदेशमुख्यालय-प्रभारी अक्षयकुमारस्य पक्षतः निर्गते पत्रे पूर्वसांसदस्य उपरि दलस्य नेतॄणां विरुद्धं माध्यमेषु अनर्गलवक्तव्यं प्रदत्तवान् इति आरोपः कृतः अस्ति। दलं तस्य एतत् कृत्यं दलविरोधि दलानुशासनविरुद्धं च इति कथयित्वा षड्दिनानां अन्तः स्पष्टीकरणं दातुं निर्दिष्टवान् अस्ति।
भाजपायाः प्रदेशमुख्यालयात् निर्गते पत्रे उक्तं यत् ओमप्रकाशयादवेन दलस्य नेतॄणां विरुद्धं माध्यमेषु प्रदीयमानैः वक्तव्यैः दलस्य प्रतिमा मलिना अभवत्। पत्रे स्पष्टतया पृष्टम् अस्ति यत् तस्य विरुद्धं अनुशासनात्मककार्यवाही किमर्थं न क्रियेत। अस्याः सूचनायाः अनन्तरं सीवानस्य राजनीतौ भाजपादलस्य अन्तः कम्पनं तीव्रम् अभवत्। दलनेतृत्वेन कृता एषा कार्यवाही पूर्वसांसदस्य साम्प्रतिक-वक्तव्यानां विषये सङ्गठनस्य अप्रसन्नतायाः रूपेण दृश्यते।
विशेषं यत् भाजपादलेन सामान्यसंचेतनां न दत्त्वा प्रत्यक्षं कारणदर्शिनी सूचना प्रदत्ता तथा अनुशासनात्मककार्यवाही कर्तुं सम्भावना अपि सूचिता अस्ति। अधुना सर्वेषां दृष्टिः ओमप्रकाशयादवस्य उत्तरस्य उपरि अस्ति। षड्दिनानां अन्तः तेन दीयमानेन स्पष्टीकरणेन एतत् स्पष्टं भविष्यति यत् दलनेतृत्वेन कृतानाम् आरोपाणां विषये सः किं स्पष्टीकरणं ददाति।
राजनैतिकवर्तुलेषु एषा सूचना सीवानस्य भाजपादलस्य आन्तरिकराजनीतेः दृष्ट्या महत्त्वपूर्णः घटनाक्रमः मन्यते। यदि पूर्वसांसदेन दत्तं उत्तरं दलनेतृत्वाय सन्तोषजनकं न भवेत्, तर्हि तस्य विरुद्धं अग्रिमं पदक्षेपं कः भविष्यति इति विषये अपि चर्चाः तीव्राः अभवन्।
Hindusthan Samachar / Divya Ranjan