Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, ०२ सेप्टेम्बरमासः (हि.स.)। बिहारराज्ये जनानां गम्भीररोगावस्थां प्राप्तुं प्रतीक्षां कर्तुं स्थाने समये एव रोगाणां परिचयं कृत्वा उपचारस्य सुविधा प्रदातुम् उद्दिश्य बुधवासरे राज्यव्यापी ‘निरीक्षण एवं उपचार-चिकित्सा आपके द्वार’ अभियानस्य शुभारम्भः कृतः। मुख्यमन्त्री सम्राटचौधरिणा पाटलिपुत्रे आयोजिते कार्यक्रमे सर्वेषां ३८ जनपदानां कृते जागरूकतारथानां हरितध्वजप्रदर्शनेन प्रस्थानं कारितम्।
मुख्यमन्त्रिणा अभियानस्य शुभारम्भावसरे स्वास्थ्यविभागाय वर्धापनानि प्रदाय उक्तं यत् अस्य अभियानस्य अन्तर्गतं राज्यस्य प्रायः षट्कोटिजनानां स्वास्थ्यपरीक्षणं कृत्वा तेषां डिजिटल्-स्वास्थ्याभिलेखं निर्मातुं लक्ष्यं निर्धारितम् अस्ति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयस्वास्थ्यमन्त्री जे.पी. नड्डा इत्येतयोः निर्देशनानुसारं स्वास्थ्यसेवानां जनं जनं प्रति प्रापणस्य दिशि अयं महत्त्वपूर्ण: प्रयत्न: अस्ति। बिहारराज्ये स्वास्थ्यमन्त्री निशान्तकुमारः अस्य अभियानस्य निरीक्षणं कुर्वन् अस्ति। अभियानस्य मूलोद्देश्यं रोगस्य गम्भीररूपं धारणपर्यन्तं प्रतीक्षां न कृत्वा समये एव तस्य परिचयं कृत्वा उपचारं सुनिश्चितं कर्तुम् अस्ति।
सम्राटचौधरी अवदत्—“परीक्षणं कारयन्तु, येन भवन्तः रोगिणः एव न भवन्तु।” तेन उक्तं यत् रोगस्य समये परिचये एव तस्य सम्यक् प्रभावी च उपचारः सम्भवति। अभियानस्य अन्तर्गतं त्रिंशद्वर्षाधिक-वयस्कानां नागरिकाणां स्वास्थ्यपरीक्षणं करिष्यते। स्वास्थ्यकर्मिणः गृहं गृहं गत्वा प्राथमिकपरीक्षणं परामर्शं च प्रदास्यन्ति। आवश्यकतानुसारं रोगिभ्यः आयुष्मान् आरोग्यमन्दिरात् आरभ्य जनपद-चिकित्सालयपर्यन्तं उपचारस्य सुविधा प्रदास्यते।
मुख्यमन्त्री अवदत् यत् राज्ये स्वास्थ्यसेवाः निरन्तरं सुदृढीक्रियन्ते। चिकित्सालयेभ्यः रोगिणां अन्यत्र प्रेषणे न्यूनता अभवत् तथा जनपदचिकित्सालयेषु शल्यक्रियाणां संख्या उल्लेखनीयरूपेण वर्धिता अस्ति। तेन उक्तं यत् जूनमासे जनपद-चिकित्सालयेषु २,४२८ शल्यक्रियाः अभवन्, वर्तमानमासे च इयं संख्या वर्धित्वा ८,००० तः अधिका अभवत्।
मुख्यमन्त्री अवदत् यत् जनपद-अनुमण्डलचिकित्सालयेषु पूर्वं षट्त्रिंश-त्प्रकारकाणां रोगाणां शल्यक्रिया क्रियमाणा आसीत्, या अधुना पञ्च-चत्वारिंशत्प्रकारकाणां शल्यक्रियापर्यन्तं वर्धिता अस्ति। अनेन रोगिभ्यः स्थानीयस्तरे एव उत्तमचिकित्सासुविधा प्राप्यते तथा उपचारार्थम् अन्यत्र गमनस्य आवश्यकता न्यूनीभविष्यति।
तेन उक्तं यत् राज्ये रक्ताल्पतायाः परीक्षणाय अपि विशेषाभियानं संचाल्यते। अस्य अन्तर्गतं एककोटिजनानां स्वास्थ्य-परीक्षणस्य लक्ष्यं निर्धारितम् अस्ति। तेन सह सम्पूर्णे बिहारराज्ये प्रायः षट्कोटिजनानां स्वास्थ्यपरीक्षणं कृत्वा तेषां स्वास्थ्याभिलेखं निर्मातुं योजना अस्ति।
सम्राटचौधरी अवदत् यत् स्वस्थः परिवारः एव सुखी परिवारः भवति तथा स्वस्थेभ्यः सुखिभ्यश्च परिवारेभ्यः एव राज्यं समृद्धं भवति। तेन उक्तं यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः विकसितभारतस्य तथा पूर्वमुख्यमन्त्रिणः नीतीशकुमारस्य समृद्ध-बिहारस्य स्वप्नं साकारयितुं बिहारस्य जनानां स्वस्थत्वम् आवश्यकम् अस्ति।
मुख्यमन्त्री अवदत् यत् बालकानां, यूनां, महिलानां वृद्धानां च सहितं परिवारस्य प्रत्येकं सदस्यं स्वस्थं स्थापयितुं विशेषं ध्यानं दातव्यम्। तेन सामान्यजनान् अभियानस्य सक्रियभागितां कर्तुं स्वस्वास्थ्यपरीक्षणं च कारयितुं आह्वानं कृतम्, येन कस्यापि व्याधेः समये एव परिचयं कृत्वा तस्य उपचारं प्रारब्धुं शक्येत।
मुख्यमन्त्री अवदत् यत् स्वास्थ्यक्षेत्रे आधारभूत-संरचनया सह मानव-संसाधनमपि सुदृढीक्रियते। नर्सिङ्ग-पैरामेडिकल-महाविद्यालयेषु अध्ययनरत-विद्यार्थिभ्यः विदेशीयभाषाणां प्रशिक्षणं प्रदातुं व्यवस्था क्रियते। अस्य उद्देश्यं तेभ्यः उत्तमप्रशिक्षणेन सह रोजगारस्य अधिकान् अवसरान् प्रदातुम् अस्ति, येन ते देशस्य अतिरिक्तं विदेशेष्वपि रोजगारं प्राप्तुं शक्नुयुः।
तेन प्राथमिकस्वास्थ्यसेवानां अधिकं सुदृढीकरणाय ‘मिशन कायाकल्प’ इत्यस्य शुभारम्भस्य विषये अपि उक्तम्। अस्य माध्यमेन प्राथमिकस्वास्थ्यकेन्द्राणां , अतिरिक्तप्राथमिकस्वास्थ्यकेन्द्राणां तथा स्वास्थ्योपकेन्द्राणां व्यवस्थाः सुव्यवस्थिताः श्रेष्ठाश्च करिष्यन्ते। मुख्यमन्त्री अवदत् यत् अनेन जनानां समीपे एव गुणवत्तापूर्णस्वास्थ्यसुविधाः प्रदातुं साहाय्यं भविष्यति।
मुख्यमन्त्रिणा सर्वेभ्यः जनपदाधिकारिभ्यः अभियानस्य नियमितनिरीक्षणं कर्तुं निर्देशः प्रदत्तः, येन निर्धारितं लक्ष्यं समये एव पूर्णं भवेत् तथा स्वास्थ्यसेवानां लाभः अधिकाधिकजनानां पर्यन्तं प्राप्नुयात्।
कार्यक्रमे उपमुख्यमन्त्री विजयकुमार-चौधरी, उपमुख्यमन्त्री बिजेन्द्रप्रसादयादवः, स्वास्थ्यमन्त्री निशान्तकुमारः तथा स्वास्थ्यविभागस्य सचिवः कुमाररविः अपि स्वविचारान् प्रस्तुतवन्तः।
राज्यव्यापी ‘जाँच एवं उपचार-चिकित्सा आपके द्वार’ अभियानं २ सेप्टेम्बर-दिनाङ्कात् प्रारभ्य ३० नवम्बर २०२६ पर्यन्तं संचालितं भविष्यति। अभियानस्य अवधौ गृहे गृहे स्वास्थ्यपरीक्षणं, परामर्शः आवश्यकतानुसारं च उपचारस्य सुविधा प्रदातुं विशेषं बलं दीयते।
Hindusthan Samachar / Divya Ranjan