Enter your Email Address to subscribe to our newsletters

लखनऊम्, ०२ सेप्टेम्बरमासः (हि.स.)। बहुजनसमाजपार्टी इति बसपायाः राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती लखनऊस्थिते दलस्य मुख्यालये त्रिसेप्टेम्बरदिने महत्त्वपूर्णां सभां आहूतवती अस्ति।
बुधवासरे दलकार्यालयात् निर्गते पत्रे उल्लिखितानुसारं सभा पूर्वाह्णे ११ वादने आयोजयिष्यते। अस्यां सभायां बसपायाः अखिलभारतीयस्तरे सर्वे वरिष्ठाः अधिकारी-पदाधिकारिणः तथा विभिन्नराज्यानाम् अध्यक्षाः समन्वयकाश्च सम्मिलिष्यन्ति।
बसपाप्रमुखा अस्यां सभायां पूर्वतनासु सभासु पदाधिकारिभ्यः समर्पितानां कार्याणां समीक्षां करिष्यति। अस्यां सभायां सर्वे समये आगन्तुं निर्देशिताः सन्ति।
Hindusthan Samachar / Divya Ranjan