छत्तीसगढ़स्य विद्युत् उपभोक्तृभ्यो सितंबरमासीयबिलपत्रके प्रवर्तितः 13 प्रतिशतम् एफपीपीएएस शुल्कः
रायपुरम्, 02 सितंबरमासः (हि.स.)। छत्तीसगढस्य प्रायः पञ्चषष्टिलक्षं विद्युत् उपभोक्तारः सितम्बरमासस्य विद्युत्बिलपत्रके पुरातनस्य अष्टप्रतिशतस्य नवीनस्य पञ्चप्रतिशतस्य च सम्मिलितरूपेण त्रयोदशप्रतिशतं एफपीपीएएसशुल्कस्य द्विगुणितभारं सोढुं प्रवृत्ता
छत्तीसगढ़ स्टेट पावर डिस्ट्रीब्यूशन कंपनी लिमिटेड कार्यालय


रायपुरम्, 02 सितंबरमासः (हि.स.)।

छत्तीसगढस्य प्रायः पञ्चषष्टिलक्षं विद्युत् उपभोक्तारः सितम्बरमासस्य विद्युत्बिलपत्रके पुरातनस्य अष्टप्रतिशतस्य नवीनस्य पञ्चप्रतिशतस्य च सम्मिलितरूपेण त्रयोदशप्रतिशतं एफपीपीएएसशुल्कस्य द्विगुणितभारं सोढुं प्रवृत्ताः भविष्यन्ति। एफपीपीएएसशुल्कस्य अर्थः ईन्धनं तथा शक्तिक्रयसमायोजनाधिभारः इति। विद्युत्कम्पनीभिः कोयलम्, गैस इत्यादीनाम् ईन्धनानां तथा विद्युत्क्रयस्य वास्तविकव्ययस्य परिवर्तनस्य आधारेण एतत् शुल्कं गृहीयते अथवा समायोज्यते।

अधिकारी तथा कम्पनीप्रवक्तृणां अनुसारं पूर्वं प्रचलितं वीसीएशुल्कं प्रत्येकं द्विमासे निर्धारितं भवति स्म। किन्तु नवीनव्यवस्थानुसारम् अधुना विद्युत्कम्पनी प्रतिमासं स्वकीयां विद्युत्क्रयव्ययस्य समीक्षा करोति। विद्युत्नियामकायोगस्य नियमानुसारं कस्मिंश्चित् मासे क्रीतविद्युतः वास्तविकव्ययस्य आकलनं कृत्वा तस्य समायोजनं ततः परस्य मासस्य विद्युत्बिले क्रियते।

विद्युत्कम्पनीनां अधिकारिभिः उक्तं यत् अगस्तमासाय एफपीपीएएसशुल्कं अधिकं निर्धारितम् आसीत्, किन्तु तस्य सम्पूर्णराशिः एकवारमेव न गृहीत्वा चरणबद्धरूपेण वसूल्यते। पूर्वशेषरूपेण स्थितम् अष्टप्रतिशतं शुल्कं सितम्बरमासस्य बिले समावेशयिष्यते। तेन सह अगस्तमासस्य पञ्चप्रतिशतं नवीनशुल्कमपि योजयिष्यते। एवं सितम्बरमासे प्राप्ते विद्युत्बिले उपभोक्तृभिः त्रयोदशप्रतिशतस्य एफपीपीएएसशुल्कस्य प्रभावः अनुभवितुं शक्यते।

सूचितं यत् आगामिषु मासेष्वपि लम्बितस्य नवीनस्य च एफपीपीएएसशुल्कस्य संयुक्तः प्रभावः विद्युत्बिलेषु भवितुं शक्नोति। एतत् शुल्कं गार्हस्थ्येषु, व्यावसायिकेषु, औद्योगिकेषु च सर्वेषु विद्युत्सम्बन्धेषु समानरूपेण प्रतिशतस्य अथवा प्रतिएककस्य आधारेण आरोप्यते।

उल्लेखनीयं यत् जनवरीमासे उपभोक्तृणां विद्युत्बिले प्रायः त्रयोदशदशमलवचतुःषष्टिप्रतिशतं एफपीपीएएसशुल्कस्य प्रभावः अभवत्। अस्मिन् पुरातनशुल्केन सह तत्कालीनं नवीनशुल्कमपि समाविष्टम् आसीत्। ततः परं विभिन्नेषु मासेषु शुल्कस्य दरः कदाचित् वर्धिता, कदाचित् न्यूना च अभवत्। फरवरीमासस्य बिले पुरातनस्य नवीनस्य च शुल्कस्य सम्मिलनेन उपभोक्तृणां कृते अतिरिक्तभारः अभवत्। मार्च तथा अप्रैलमासयोः शुल्कस्य दरस्य किञ्चित् न्यूनता दृष्टा।

अप्रैलमासस्य बिलपत्रके एफपीपीएएसशुल्कं प्रायः त्रिदशमलवाष्टप्रतिशतं आसीत्। मईमासस्य अवधौ एतत् वर्धित्वा प्रायः नवदशमलवत्रयोदशप्रतिशतं जातम्। जूनमासस्य बिले शुल्कं प्रायः एकादशदशमलवत्रयस्त्रिंशत्प्रतिशतं आसीत्। जुलाईमासे विद्युत्बिलेषु प्रायः दशप्रतिशतस्य शुल्कस्य प्रभावः अभवत्। तस्मिन् समये अधिका दरः निर्धारितायामपि सम्पूर्णराशिः एकवारं न गृहीता तथा च तस्य कश्चित् भागः आगामीबिलेषु समायोजनार्थं लम्बितः स्थापितः। अधुना एष एव लम्बितराशिः सितम्बरमासस्य बिलपत्रके नवीनशुल्केन सह योजितुं गच्छति।

छत्तीसगढराज्यविद्युत्वितरणकम्पनी लिमिटेड इत्यस्य प्रबन्धनिदेशकः भीमसिंहकंवरः अवदत् यत् एफपीपीएएस अन्तर्गतं भवद् वा परिवर्तितं शुल्कं उपभोक्तृणां विद्युत्बिले सङ्गणकतन्त्रांशस्य माध्यमेन स्वयमेव गणितं कृत्वा आरोपितं भविष्यति। तदर्थम् उपभोक्तृभिः पृथक् किमपि कर्तव्यं नास्ति।

विद्युत्कम्पनीनां अधिकारिणां अनुसारं गतकेषु मासेषु एफपीपीएएसशुल्कस्य वृद्धेः प्रमुखं कारणं विद्युत्उत्पादनस्य अपेक्षया अतिरिक्तविद्युत्क्रयणम् अस्ति। ग्रीष्मकाले विद्युतः मागः वर्धितत्वात् बहिःस्थस्रोतस्सु अधिकमात्रायां विद्युत् क्रेतव्या अभवत्। तदतिरिक्तं कोरबाक्षेत्रस्य द्विशतदशमेगावाट् क्षमतायुक्तानां विद्युत्संयन्त्राणां बन्दत्वस्य प्रभावः अपि विद्युत्व्यवस्थायां अभवत्। कतिपयेषु उत्पादनएककेषु दीर्घकालं यावत् उत्पादनं स्थगिते सति विद्युत्कम्पनीभिः अन्येभ्यः स्रोतस्सुभ्यः विद्युत् क्रेतव्या अभवत्। बाह्यस्रोतस्सु अधिकव्ययेन कृतस्य विद्युत्क्रयस्य प्रभावः अधुना एफपीपीएएसशुल्करूपेण उपभोक्तृणां विद्युत्बिलप्रत्रकेषु दृश्यते।

Hindusthan Samachar / Dheeraj Maithani