Enter your Email Address to subscribe to our newsletters

रायपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढस्य राजधान्यां रायपुरे तद्समीपस्थेषु च अन्येषु जनपदेषु निवसन्तः केचन प्रमुखाः सिन्धीसन्ताः तथा प्रायः शतं महिला-पुरुष-समाजसेवकाः षष्ठे सेप्टेम्बरमासे बेमेतराजनपदस्य सलधानामके ग्रामे ज्योतिर्मठस्य शङ्कराचार्येण स्वामिना अविमुक्तेश्वरानन्दसरस्वतीमहाभागेन सह तस्य चातुर्मासव्रतमहोत्सवस्यावसरे सभां करिष्यन्ति।
रायपुरस्य मसन्दसेवाश्रमस्य प्रवक्ता मयङ्कमसन्दः बुधवासरे अवदत् यत् सभायां देशे सनातनवैदिक-सिद्धान्ताधारितस्य धर्मशासनस्य स्थापनया भारतं पुनः समग्रविश्वस्य कल्याणं कर्तुं समर्थं विश्वगुरुं कथं कर्तुं शक्यते, अस्मिन् विषये विचारविमर्शः भविष्यति। अस्मिन् अभियाने सिन्धीसमाजस्य प्रभावशालिनी भूमिका का भवितुम् अर्हति, इत्यस्य विषये अपि विचारः भविष्यति।
सभायाः आयोजकः स्थानीयम-सन्दसेवाश्रमस्य पीठाधीशः सिन्धी-समाजस्य सन्तः साई जलकुमार-मसन्दसाहिबः अस्ति। उल्लेखनीयमस्ति यत् शङ्कराचार्येण स्वामिना अविमुक्तेश्वरानन्द-सरस्वतीमहाभागेन साईमसन्दसाहिबः प्रयागराजे सम्पन्ने गतकुम्भमेलापके १०८ देशानां अन्ताराष्ट्रियहिन्दूसङ्घटनस्य ‘परम-धर्मसंसद् १००८’-इत्यस्य सङ्गठनमन्त्री तथा शङ्कराचार्य-महाराजस्य मुम्बई-चातुर्मासव्रतमहोत्सवे देशे सञ्चाल्य-मानस्य ‘गोमाता राष्ट्रमाता’-अभियानस्य अन्तर्गतं गोसंसदः सचेतकरूपेण नियुक्तः अस्ति।
उल्लेखनीयमस्ति यत् साईमसन्दः विगतेषु द्वादशवर्षेषु पूज्यपादानां शङ्कराचार्याणाम् अन्येषां च महानां सन्तानां सहयोगेन देशे सनातनवैदिकसिद्धान्ताधारितस्य धर्मशासनस्य स्थापनां कृत्वा भारतं पुनः विश्वगुरुं कर्तुम् अभियानं सञ्चालयति। सः अवदत् यत् अस्माकं स्वातन्त्र्यस्य मूलोद्देश्यं वस्तुतः एतदेव आसीत्। अस्य उल्लेखः देशस्य स्वातन्त्र्यसङ्ग्रामस्य पुरोधसां बालगङ्गाधरतिलकस्य, महर्षेः अरविन्दस्य च तदानीन्तनानां व्याख्यानानां अभिलेखेषु वर्तते। तैः उक्तमासीत् यत् अस्माभिः स्वातन्त्र्यस्य लक्ष्यं सर्वथा प्राप्तव्यमेव।
Hindusthan Samachar / Divya Ranjan