आईएमएलसी उन्नावाय 46.44 कोटितः अधिकस्य धनराशिः स्वीकृतः
लखनऊ, 02 सितंबरमासः (हि.स.)।अटल-औद्योगिक-अवसंरचना-अभियानस्य अन्तर्गतं एकीकृत-निर्माण-तथा-रसद्-समूहस्य (आईएमएलसी) उन्नावस्य विकासं गतिं प्रदातुं वित्तीयवर्षे २०२६-२७ मध्ये ४६,४४,६३,०००.०० रूप्यकाणां (षट्चत्वारिंशत् कोटिः चतुश्चत्वारिंशत् लक्षाणि त्र
लोगो


लखनऊ, 02 सितंबरमासः (हि.स.)।अटल-औद्योगिक-अवसंरचना-अभियानस्य अन्तर्गतं एकीकृत-निर्माण-तथा-रसद्-समूहस्य (आईएमएलसी) उन्नावस्य विकासं गतिं प्रदातुं वित्तीयवर्षे २०२६-२७ मध्ये ४६,४४,६३,०००.०० रूप्यकाणां (षट्चत्वारिंशत् कोटिः चतुश्चत्वारिंशत् लक्षाणि त्रिषष्टिसहस्राणि रूप्यकाणि मात्रम्) तृतीयकिस्तरूपेण वित्तीयस्वीकृतिः प्रदत्ता अस्ति। एषा धनराशिः उत्तरप्रदेश-एक्सप्रेसवेज्-औद्योगिक-विकास-प्राधिकरणाय (यूपीडा) प्रदास्यते।

अस्य सम्बन्धे अवस्थापना-विकास-विभागेन आदेशः निर्गतः अस्ति। अटल्-औद्योगिक-अवसंरचना-अभियानस्य अन्तर्गतं आईएमएलसी उन्नावस्य विकासः प्रदेशे आधुनिक-औद्योगिक-तथा-रसद्-सुविधानां सुदृढीकरणस्य दिशि महत्त्वपूर्णं पदक्षेपम् अस्ति। समूहस्य विकासेन औद्योगिक-एककानां कृते आवश्यकाः आधारभूत-सुविधाः उपलब्धाः भविष्यन्ति तथा च निर्माण-रसद्-गतिविधीनां प्रोत्साहनं भविष्यति।

Hindusthan Samachar / Dheeraj Maithani