गोरक्षपीठे परंपरा, भव्यता उल्लासः इत्येभिः समाचरिष्यते श्रीकृष्ण जन्मोत्सवः
गोरक्षपीठाधीश्वरः मुख्यमन्त्री च योगी आदित्यनाथः अपि आयोजने सम्मिलितौ भविष्यतः गोरखनाथमन्दिरे भजनानां मध्ये श्रीकृष्णस्य प्राकट्यानन्तरं गोरक्षपीठाधीश्वरः तस्य बालरूपं दोलायां दोलयिष्यति गोरखपुरम्, ०२ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गोरखपुरजन
गोरक्षपीठे परंपरा, भव्यता उल्लासः इत्येभिः समाचरिष्यते श्रीकृष्ण जन्मोत्सवः*


गोरक्षपीठाधीश्वरः मुख्यमन्त्री च योगी आदित्यनाथः अपि आयोजने सम्मिलितौ भविष्यतः

गोरखनाथमन्दिरे भजनानां मध्ये श्रीकृष्णस्य प्राकट्यानन्तरं गोरक्षपीठाधीश्वरः तस्य बालरूपं दोलायां दोलयिष्यति

गोरखपुरम्, ०२ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गोरखपुरजनपदे गोरक्षपीठे भगवान् श्रीकृष्णस्य जन्मोत्सवः (श्रीकृष्णजन्माष्टमी) ०४ सितम्बर शुक्रवासरे परम्परया, भव्यतया उल्लासेन च आयोज्यते। श्रीकृष्णजन्मोत्सवसमारोहे गोरक्षपीठाधीश्वरः मुख्यमन्त्री योगी आदित्यनाथः च अपि सम्मिलितौ भविष्यतः। गोरखनाथमन्दिरे भजनानां मध्ये भगवान् श्रीकृष्णस्य प्राकट्यानन्तरं गोरक्षपीठाधीश्वरः तस्य बालरूपं दोलायां दोलयिष्यति। श्रीकृष्णजन्मोत्सवस्य उपलक्ष्ये गोरखनाथमन्दिरे भजनसन्ध्यया सह बालकेभ्यः श्रीकृष्णबालरूपसज्जाप्रतियोगितायाः आयोजनमपि भविष्यति।

गोरखनाथमन्दिरस्य महन्तदिग्विजयनाथस्मृतिभवने श्रीकृष्णजन्मोत्सवसमारोहे कार्यक्रमाः सायं पञ्चवादनादेव प्रारभ्यन्ते। बालकानां कृते श्रीकृष्णबालरूपसज्जाप्रतियोगितायाः अनन्तरं भजनसन्ध्यायाः आयोजनं भविष्यति।

गोरखनाथमन्दिरस्य प्रधानपूजारी योगीकमलनाथः बुधवासरे अवदत् यत् स्मृतिभवने भजनानां प्रस्तुति रात्रौ सार्धैकादशवादनपर्यन्तम् अनवरतं भविष्यति। भजनसन्ध्यायाः समये एव गोरक्षपीठाधीश्वरः मुख्यमन्त्री योगी आदित्यनाथः च श्रीकृष्णजन्मोत्सवसमारोहे सम्मिलितौ भविष्यतः। अत्र भजनश्रवणेन सह सः बालकेभ्यः क्रीडनकानि चाकलेहं च दास्यति।

रात्रौ सार्धैकादशवादने गोरक्षपीठाधीश्वरः गोरखनाथमन्दिरस्य गर्भगृहे पूजार्चनां कर्तुं गमिष्यति। रात्रौ द्वादशवादने वैदिकमन्त्राणां घोषस्य मध्ये सः मन्दिरस्य गर्भगृहे श्रीकृष्णजन्माष्टमीं समाचरिष्यति। ततः सः श्रीकृष्णस्य बालरूपं दोलायां दोलयिष्यति। अस्मिन् अवसरे बहुसंख्याकैः समागतैः श्रद्धालुभ्यः प्रसादस्य वितरणं भविष्यति।

द्वयोः वर्गयोः भविष्यति श्रीकृष्णबालरूपसज्जाप्रतियोगिता

गोरखनाथमन्दिरस्य महन्तदिग्विजयनाथस्मृतिभवने शुक्रवासरे ०४ सितम्बर सायं पञ्चवादनतः सप्तवादनपर्यन्तं श्रीकृष्णबालरूपसज्जाप्रतियोगिता द्वयोः वर्गयोः भविष्यति। कान्हावर्गे एकवर्षतः पञ्चवर्षपर्यन्तं तथा गोपालवर्गे षड्वर्षतः अष्टवर्षपर्यन्तं बालकाः प्रतिभागं कर्तुं शक्नुवन्ति। प्रतिभागिनां पञ्जीकरणं कार्यक्रमस्थले एव भविष्यति। प्रतियोगितायां न केवलं विजेतारः, अपितु अस्यां सम्मिलिताः सर्वे प्रतिभागिनः पुरस्कृताः भविष्यन्ति।

प्रतियोगितायाः अनन्तरं रात्रौ अष्टवादनतः भजनसन्ध्यायाः आयोजनं भविष्यति। स्मृतिभवने सुप्रसिद्धलोकगायकस्य राकेशश्रीवास्तवस्य दलं भजनानां सांस्कृतिककार्यक्रमाणां च प्रस्तुतीं करिष्यति। अपरतः मुख्येमन्दिरे हनुमत्सांस्कृतिकसंस्थायाः द्वारा भजनानां प्रस्तुतिः भविष्यति।

---

Hindusthan Samachar / Dheeraj Maithani