तेलंगानायाः ‘गोल्लाला गुड़ी’ मंदिरराष्ट्रियमहत्वस्य स्मारकं घोषितम्
हैदराबादम्, 02 सितंबरमासः (हि.स.)। भारतीयपुरातत्त्वसर्वेक्षणेन तेलङ्गानाराज्यस्य मुलुगुजनपदस्य पालमपेटग्रामे स्थितं गोल्लालागुडीमन्दिरं राष्ट्रियमहत्त्वस्य स्मारकरूपेण अधिसूचितम् अस्ति। एतत् मन्दिरं युनेस्कोविश्वधरोहरस्थले काकतीयरुद्रेश्वररामप्पा
पालमपेट गांव स्थित 'गोल्लाला गुड़ी' मंदिर


पालमपेट स्थित 'गोल्लाला गुड़ी' मंदिर


हैदराबादम्, 02 सितंबरमासः (हि.स.)।

भारतीयपुरातत्त्वसर्वेक्षणेन तेलङ्गानाराज्यस्य मुलुगुजनपदस्य पालमपेटग्रामे स्थितं गोल्लालागुडीमन्दिरं राष्ट्रियमहत्त्वस्य स्मारकरूपेण अधिसूचितम् अस्ति। एतत् मन्दिरं युनेस्कोविश्वधरोहरस्थले काकतीयरुद्रेश्वररामप्पामन्दिरस्य दक्षिणपश्चिमदिशि स्थितम् अस्ति।

मन्यते यत् काकतीयशासनकाले द्वादशत्रयोदशशताब्द्योः मध्ये अस्य मन्दिरस्य निर्माणम् अभवत्। बुधवासरे प्रकाशितायाः आधिकारिकविज्ञप्तेः अनुसारं द्विसहस्रषड्विंशतितमवर्षस्य अगस्तमासस्य एकत्रिंशद्दिनाङ्के भारतस्य राजपत्रस्य असाधारणे भागे द्वितीये खण्डे तृतीयस्य उपखण्डे द्वितीयक्रमाङ्के भारतीयपुरातत्त्वसर्वेक्षणस्य एस ओ ४८०२ ई इति अधिसूचना प्रकाशिताऽस्ति।

गोल्लालागुडी त्रिकूटालयरूपं मन्दिरम् अस्ति, यस्मिन् त्रयः गर्भगृहाः सन्ति। पूर्वाभिमुखं मण्डपं त्रिभिः गर्भगृहैः परिवेष्टितम् अस्ति। अस्य मन्दिरस्य वेदिकाभागः मूर्तिभिः अलङ्कृतः अस्ति। स्तम्भशिरोभागेषु द्वारेषु च उत्कीर्णानां हंसानां पङ्क्तयः जालिकाकारं च कार्यं अस्य मन्दिरस्य प्रमुखविशेषताः सन्ति।

मन्दिरस्य पुरतः द्वे स्वतन्त्रे तीर्थस्थले स्तः, ये सुन्दररूपेण उत्कीर्णे स्तः तथा द्वारपालानां प्रतिमाभिः अलङ्कृते स्तः। तयोः पुरतः अन्तरालानि सन्ति, येषु सूक्ष्मैः कर्णिसैः छज्जैः जालिकाभिश्च अलङ्करणं कृतम् अस्ति।

मुख्यमन्दिरस्य संरचनायां पुरतः एकः प्रवेशमण्डपः अस्ति, यः मुख्यसभागृहस्य मध्यभागं प्रति नयति। अस्य उत्तरदक्षिणपश्चिमदिशासु अन्तरालैः सह त्रयः गर्भगृहाः सन्ति। भित्तिषु विविधाः देवकोष्ठाः सन्ति, येषु भगवान् विष्णुः, लक्ष्मीः, गणेशः तथा महिषासुरमर्दिन्याः प्रतिमाः स्थापिताः सन्ति। एतत् मन्दिरं पश्वाकृतिभिः पुष्पविन्यासैश्च अलङ्कृते उन्नते जगत्युपपीठे स्थितम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani