हिमाचले रज्जुमार्गनिर्माणस्य अधिकव्ययः बृहती समस्या, सार्वजनिक-निजी-सहभागितायाः प्रारूपेण परियोजनाः अग्रे नेष्यति सर्वकारः - मुख्यमन्त्री सुक्खुः
शिमला, ०२ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशविधानसभायाः मानसूनसत्रे बुधवासरे प्रश्नकालस्य समये रज्जुमार्गनिर्माणस्य विषयः चर्चायाम् आगतः। सत्तापक्षस्य विपक्षस्य च विधायकैः प्रदेशे रज्जुमार्गपरियोजनानां स्थितिः, तासां व्ययः, निजी-निवेशः तथा पर्यटन
सदन में मुख्यमंत्री


शिमला, ०२ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशविधानसभायाः मानसूनसत्रे बुधवासरे प्रश्नकालस्य समये रज्जुमार्गनिर्माणस्य विषयः चर्चायाम् आगतः। सत्तापक्षस्य विपक्षस्य च विधायकैः प्रदेशे रज्जुमार्गपरियोजनानां स्थितिः, तासां व्ययः, निजी-निवेशः तथा पर्यटनस्थलानां रज्जुमार्गेण संयोजनम् इत्यादीनां विषये मुख्यमन्त्री सुखविन्दरसिंहसुक्खुं प्रति प्रश्नाः पृष्टाः।

मुख्यमन्त्री अवदत् यत् हिमाचले रज्जुमार्गाः सर्वकारस्य प्राथमिकतासु अन्तर्भवन्ति, किन्तु तेषां अत्यधिकव्ययस्य कारणेन अनेकानां परियोजनानाम् अग्रे संचालनस्य विषये कठिनता जायते। सः अवदत् यत् सर्वकारः सार्वजनिक-निजी-सहभागितायाः तथा बाह्यसहायता-परियोजना प्रारूपयोः रज्जुमार्गनिर्माणाय सज्जः अस्ति तथा निजी-निवेशकानां स्वागतं करिष्यति। मुख्यमन्त्री सुक्खुः अवदत् यत् शिमलानगरे रज्जुमार्ग-स्थापनस्य योजनायाः विषये अपि कार्यं कर्तुं प्रयासः कृतः आसीत्। निविदायाः मूल्याङ्कने तस्याः अनुमानितः व्ययः प्रायः २७०० कोटिरूप्यकाणि निर्धारितः अभवत्। अत्यधिकव्ययस्य कारणेन अस्याः परियोजनायाः विषये निर्णयः न भवितुं शकितः तथा सा निरस्ता अभवत्। सः अवदत् यत् पूर्वमन्त्रिमण्डलस्य सभायां पीपीपी तथा ईएपी प्रारूपयोः परियोजनां प्रवर्तयितुं विषयः स्थापितः अस्ति। मुख्यमन्त्री अवदत् यत् रज्जुमार्गस्य ट्रॉली रिक्तया अपि चलति चेत् त्रिभ्यः चतुर्भ्यः यात्रिभ्यः यः व्ययः भवति, तस्य भारः सर्वकारेण वोढव्यः भविष्यति।

सः अवदत् यत् सर्वकारः एतादृशी व्यवस्थां कर्तुं विचारयति, यस्यां रज्जुमार्गस्य पीपीपी-प्रारूपस्य अवधि त्रिंशतः पञ्चत्रिंशत् वर्षेभ्यः यावत् सीमिता भवेत्। सः रज्जुमार्गनिर्माणे निजी-निवेशकान् हिमाचलं प्रति आगन्तुं आह्वयन् अवदत् यत् सर्वकारः तेषां स्वागतं करिष्यति। मुख्यमन्त्री अवदत् यत् सर्वकारस्य समीपे प्रायः १२०० कोटिरूप्यकाणि उपलब्धानि सन्ति तथा निजी-निवेशकान् शिमला-नगरम् आगन्तुं निमन्त्रयिष्यते। सः अवदत् यत् सर्वकारस्य प्रयासः अस्ति यत् रज्जुमार्गस्य माध्यमेन प्रदेशस्य तानि क्षेत्राणि संयोज्येरन्, यत्र सम्प्रति जनानां प्रापणं सीमितम् अस्ति। पर्यटनदृष्ट्या अद्यापि अस्पृष्टानां क्षेत्राणां रज्जुमार्गेण संयोजने विशेषं बलं दीयते। मुख्यमन्त्री अवदत् यत् हिमाचलः पर्यटनदृष्ट्या रमणीयः प्रदेशः अस्ति तथा रज्जुमार्गस्य माध्यमेन एतादृशेषु क्षेत्रेषु परिचयं निर्मातुं शक्यते।

सः अवदत् यत् प्रदेशे विश्वस्य अन्येषां बहूनां भागानां तुलनया विशालं हिमाच्छादितं क्षेत्रम् अस्ति। यदि वनसंरक्षण-अधिनियमस्य अर्थात् एफसीए-अनुमोदनस्य कारणेन परियोजनासु विलम्बः भवति तर्हि सर्वकारः अस्याः प्रक्रियायाः शीघ्रीकरणाय प्रयासं करिष्यति।

चुराहस्य विधायकः हंसराजः चम्बायां प्रस्तावितानां त्रयाणां रज्जुमार्ग-परियोजनानां विषयम् उत्थापितवान्। सः मुख्यमन्त्रिणं पृष्टवान् यत् किं एतासां तिसृणां परियोजनानाम् अग्रे संचालनाय सर्वकारस्य स्तरात् प्रस्तावः क्रियते? मुख्यमन्त्री अवदत् यत् रज्जुमार्गपरियोजनानां प्रस्तावेषु अनेकान् पक्षान् द्रष्टव्यम् भवति। अनेकासु परिस्थितिषु सन्धिज्ञापनम् अर्थात् एमओयू करणीयमिति विषयः भवति। सः अवदत् यत् रज्जुमार्गाः सर्वकारस्य प्राथमिकतासु सन्ति, किन्तु केवलम् अध्ययनाय धनव्ययः सर्वकारस्य कृते सम्भवः नास्ति। सः अवदत् यत् निजी-निवेशकाः आगच्छन्ति चेत् सर्वकारः तेषां स्वागतं करिष्यति तथा तेषभ्यः भूमिं प्रदातुं अपि विचारः कर्तुं शक्यते, यत्र ते होटल इति निर्मातुं शक्नुयुः।

भाजपाविधायकः सुधीरशर्मा हिमानी-चामुण्डा-रज्जुमार्गस्य स्थितिं प्रति प्रश्नम् उत्थापितवान्। सः पृष्टवान् यत् किं सर्वकारः क्योरीतः बिलिङ्गं प्रति संयोजयन्तीं योजनाम् अपि विचारयति? मुख्यमन्त्री अवदत् यत् उषा-कम्पन्या शिमलायाः हिमानीचामुण्डायाश्च उभयोः परियोजनयोः दायित्वं स्वीकृतम् आसीत्, किन्तु चतुर्षु वर्षेषु विषयः प्रचलितः आसीत् तथा किमपि कार्यं न अभवत्। सः अवदत् यत् निजी-निवेशकाः स्वधनेन रज्जुमार्गं निर्मान्तु, सर्वकारः एतादृशानां निवेशकानां मुक्तहृदयेन स्वागतं करिष्यति। चिन्तपूर्णी-विधायकः राकेशकालयः चिन्तपूर्णी-रज्जुमार्गस्य सुविधाजनकीकरणस्य विषयम् उत्थापितवान्। मुख्यमन्त्री अवदत् यत् अस्य विचारस्य विषये उपमुख्यमन्त्रिणा सह चर्चा करिष्यते तथा सर्वकारः रज्जुमार्गस्य विषये मुक्तमनसा सज्जः अस्ति।

विधायकः केवलसिंहपठानिया धर्मशाला-नड्डी जिपलाइन इत्यस्य विषयम् उत्थाप्य पृष्टवान् यत् पीपीपी-प्रारूपेण परियोजनायै निवेशकाः किमर्थं न आगच्छन्ति तथा वनस्वीकृतिः कदा यावत् प्राप्स्यते? सः धर्मशाला-रज्जुमार्गस्य वर्तमानस्थितेः विषये अपि सूचना याचितवान्। मुख्यमन्त्री अवदत् यत् प्रदेशे पर्यटनस्य महती सम्भावना अस्ति तथा रज्जुमार्गस्य माध्यमेन अस्पृष्टक्षेत्रेषु परिचयं निर्मातुं शक्यते। सः अवदत् यत् एफसीए-अनुमोदनस्य कारणेन यदि विलम्बः भवति तर्हि प्रक्रियायाः शीघ्रीकरणं करिष्यते। सर्वकारः पर्यटनदृष्ट्या रज्जुमार्गान् प्रोत्साहयिष्यति।

एतत्पूर्वम् अर्की-विधायकस्य सञ्जय-अवस्थिनः मूलप्रश्नस्य उत्तरं ददन् उद्योगमन्त्री हर्षवर्धनचौहानः प्रदेशे रज्जुमार्गपरियोजनानां स्थितेः विषये सूचना दत्तवान्। सः अवदत् यत् एशियाई-विकासधनागारात् प्राप्तेन ऋणेन सहाय्येन च प्रदेशे कापि रज्जुमार्ग-परियोजना न स्वीकृता अस्ति, न च निर्माणाधीना अस्ति। सः अवदत् यत् प्रदेशे पीपीपी-प्रारूपस्य अन्तर्गतं षट् रज्जुमार्गपरियोजनाः सन्ति।

उद्योगमन्त्री अवदत् यत् कुल्लूजनपदे पलचान-रोहताङ्ग-रज्जुमार्गस्य अनुमानितः व्ययः ३४० कोटिरूप्यकाणि अस्ति तथा तस्य निर्माणं अक्तूबर् २०२८ पर्यन्तं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। परियोजनायाः प्रथमचरणे स्तम्भानां निर्माणं पूर्णम् अभवत् तथा सम्प्रति रज्जुस्थापनस्य कार्यं प्रचलति। द्वितीयचरणे स्तम्भनिर्माणकार्यं प्रचलति, तृतीयचरणस्य निर्माणकार्यं तु अद्यापि आरब्धं नास्ति। सः अवदत् यत् कुल्लूजनपदे विद्युत्महादेव-रज्जुमार्गस्य अनुमानितः व्ययः २७८ कोटिरूप्यकाणि अस्ति। अस्य पूर्णतायाः प्रारम्भिकं लक्ष्यं जुलाई २०२६ इति निर्धारितम् आसीत्। सम्प्रति अस्य कार्यं स्थगितम् अस्ति। परियोजनां प्रति स्थानीयविरोधस्य तथा राष्ट्रियहरिताधिकरणे प्रकरणस्य लम्बनस्य कारणेन २४ दिसम्बरमासे २०२५ दिनाङ्के एषा परियोजना ‘फोर्स मेजर’ इति घोषितः आसीत्। उद्योगमन्त्री अवदत् यत् सम्प्रति एषा परियोजना लम्बिता अस्ति।

उद्योगमन्त्री अवदत् यत् हमीरपुरजनपदे बाबा बालकनाथमन्दिर-रज्जुमार्गस्य अनुमानितः व्ययः ६५ कोटिरूप्यकाणि अस्ति। अस्य निर्माणं दिसम्बरमास: २०२८ पर्यन्तं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। परियोजनायाः प्रथमचरणस्य अनुमोदनं प्राप्तम् अस्ति तथा द्वितीयचरणस्य प्रक्रिया प्रचलति। अस्य निर्माणकार्यं दिसम्बर् २०२६ मध्ये प्रारब्धुं शक्यते इति अपेक्षा अस्ति। सः अवदत् यत् कुल्लूजनपदे कुल्लूढालपुर-पीज-रज्जुमार्गस्य अनुमानितः व्ययः ८० कोटिरूप्यकाणि अस्ति तथा अस्य निर्माणं दिसम्बर २०२८ पर्यन्तं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। अस्याः परियोजनायाः प्रथमचरणस्य तथा एफसीए-अनुमोदनं प्राप्तम् अस्ति। द्वितीयचरणस्य प्रक्रिया प्रचलति तथा निर्माणकार्यं दिसम्बर् २०२६ मध्ये प्रारब्धुं शक्यते इति अपेक्षा अस्ति।

हर्षवर्धनचौहानः अवदत् यत् काङ्गडाजनपदे नड्डी-दृश्यावलोकन-स्थानक-धर्मशाला-जिपलाइन इत्यस्य अनुमानितः व्ययः ७ कोटि ४१ लक्षरूप्यकाणि अस्ति। अस्य निर्माणं फरवरी २०२८ पर्यन्तं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। सम्प्रति अस्य एफसीए-अनुमोदनस्य प्रक्रिया प्रचलति तथा निर्माणकार्यं दिसम्बर २०२६ मध्ये प्रारब्धुं शक्यते इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan