भारतं नेपालाय प्रेषितवत् सहायतायाः पञ्चमसामग्रीं, 11 सदस्यीयरक्षणदलं 5.5 टनमितम् औषधं प्राप्नोत् काठमांडूम्
काठमांडूः, 02 सितंबरमासः (हि.स.)। नेपालदेशे अभूतपूर्वेन जलप्लावनेन प्रभावितानां जनानां रक्षण-राहतकार्येषु सहयोगार्थं भारतात् प्रेषितायाः राहतसहायतायाः पञ्चमी खेपः काठमाण्डूनगरं प्राप्तवती अस्ति। काठमाण्डूस्थिते त्रिभुवन-अन्तर्राष्ट्रीय-विमानपत्तने
भारत के द्वारा भेजी गई पांचवीं खेप राहत सामग्री


काठमांडूः, 02 सितंबरमासः (हि.स.)। नेपालदेशे अभूतपूर्वेन जलप्लावनेन प्रभावितानां जनानां रक्षण-राहतकार्येषु सहयोगार्थं भारतात् प्रेषितायाः राहतसहायतायाः पञ्चमी खेपः काठमाण्डूनगरं प्राप्तवती अस्ति। काठमाण्डूस्थिते त्रिभुवन-अन्तर्राष्ट्रीय-विमानपत्तने भारतदेशेन प्रेषितां राहतसामग्रीं भारतीयदूतावासस्य प्रतिनिधिना नेपालसर्वकारस्य प्रतिनिधये हस्तान्तरितम्।

भारतीयविदेशमन्त्री डॉ. एस. जयशङ्करेण बुधवासरस्य प्रातः सूचितं यत् भारतात् सहायतायाः पञ्चमी खेपः विमानेन नेपालदेशं प्रति प्रेषिता। तेन उक्तं यत् विमाने विशेषान्वेषण-रक्षणोपकरणैः सुसज्जितं एकादशसदस्यात्मकं रक्षणदलम् तथा पञ्च दशमलव पञ्च टनमिताः आवश्यकौषधयः प्रेषिताः सन्ति। एतत् दलं जलप्लावनेन प्रभावितेषु क्षेत्रेषु अन्वेषण-रक्षणाभियाने सहाय्यं करिष्यति।

अद्य केवलं द्विदिनपूर्वमेव भारतदेशेन जलप्लावनेन प्रभावितानां जनानां कृते एकादश टनमितां राहतसामग्रीं तथा प्राविधिकदलेन सह चतुर्थं विमानं नेपालदेशं प्रति प्रेषितम् आसीत्।

नेपालदेशे सम्प्रति रक्षण-राहतकार्याणि तीव्रगत्या प्रचलन्ति। भारतसहितैः विभिन्नैः देशैः अन्तर्राष्ट्रीयसंस्थाभिश्च अपि जलप्लावनेन प्रभावितेभ्यः क्षेत्रेभ्यः सहायता उपलब्धीक्रियते।

---------------

Hindusthan Samachar / अंशु गुप्ता