जयशंकरेण 3-5 सितंबरमासं यावत् यूक्रेनपोलैंडदेशयोः भ्रमणं करिष्यते
नव दिल्ली, 02 सितंबरमासः (हि.स.)।विदेशमन्त्री डा एस जयशङ्करः सितम्बरमासस्य तृतीयदिनाङ्कात् पञ्चमदिनाङ्कपर्यन्तं यूक्रेनदेशस्य पोलैण्डदेशस्य च आधिकारिकयात्रायां भविष्यति। अस्यां यात्रायां सः उभयोः देशयोः स्वसमकक्षैः सह द्विपक्षीयसम्बन्धानां सुदृढीकर
विदेश मंत्री डॉ. एस. जयशंकर (फाइल फोटो)


नव दिल्ली, 02 सितंबरमासः (हि.स.)।विदेशमन्त्री डा एस जयशङ्करः सितम्बरमासस्य तृतीयदिनाङ्कात् पञ्चमदिनाङ्कपर्यन्तं यूक्रेनदेशस्य पोलैण्डदेशस्य च आधिकारिकयात्रायां भविष्यति। अस्यां यात्रायां सः उभयोः देशयोः स्वसमकक्षैः सह द्विपक्षीयसम्बन्धानां सुदृढीकरणाय क्षेत्रीयघटनाक्रमानां च विषये विचारविमर्शं करिष्यति।

विदेशमन्त्रालयस्य अनुसारं यात्राकाले जयशङ्करः यूक्रेनदेशस्य विदेशमन्त्री आन्द्रे सिबिहा तथा पोलैण्डदेशस्य उपप्रधानमन्त्री विदेशमन्त्री च राडोस्लाव सिकोरस्की इत्याभ्यां सह द्विपक्षीयविचारविमर्शं करिष्यति।

विदेशमन्त्रिणः यात्राकाले भारतस्य उभाभ्यां देशाभ्यां सह द्विपक्षीयसम्बन्धानां प्रगतिसाधनस्य अतिरिक्तं क्षेत्रीयघटनाक्रमसम्बद्धेषु विषयेषु तथा साझा हितसम्बद्धेषु विविधविषयेषु विचाराणाम् आदानप्रदानं भविष्यति।

------------

Hindusthan Samachar / Dheeraj Maithani