उप मुख्यमंत्रिणा केशव प्रसाद मौर्येण अमिलत् जर्मनीदेशस्य प्रतिनिधिमंडलम्
लखनऊ, 02 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः बुधवासरे राजधानीलखनऊस्थे स्वकीयशिविरकार्यालये जर्मनीदेशस्य उच्चस्तरीयप्रतिनिधिमण्डलेन सह शिष्टाचारमेलनं कृतवान्। अस्यां भेटौ उत्तरप्रदेशस्य जर्मनीदेशस्य च मध्ये विभिन्नक्षे
जर्मनी के महापौर डेविड लेंडल को गोतम बुद्ध की प्रतिमा भेंट करते केशव प्रसाद मौर्य


लखनऊ, 02 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः बुधवासरे राजधानीलखनऊस्थे स्वकीयशिविरकार्यालये जर्मनीदेशस्य उच्चस्तरीयप्रतिनिधिमण्डलेन सह शिष्टाचारमेलनं कृतवान्। अस्यां भेटौ उत्तरप्रदेशस्य जर्मनीदेशस्य च मध्ये विभिन्नक्षेत्रेषु द्विपक्षीयसम्बन्धानां सुदृढीकरणविषये विशेषरूपेण चर्चा अभवत्।

उपवेशने मुख्यरूपेण निवेशः, नवाचारः, कौशलविकासः औद्योगिकसहयोगश्च इत्येतेषु क्षेत्रेषु नवीनसम्भावनानां विषये सार्थकविमर्शः अभवत्। प्रदेशे विकासस्य जीविकायाः च नवीनावसराः सृज्येरन् इत्यस्मिन् विषये अपि विशेषतया विचारः कृतः।

अस्मिन् अवसरे जर्मनीदेशस्य राउनहेमनगरस्य महापौरः डेविडरेण्डलः, इनोवेशनहबराइनमेनस्य मुख्यकार्यकारीअधिकारी स्टीफनविट्टेकाइण्डः, जर्मनइण्डियनबिजनेसअलायन्सस्य मुख्यकार्यकारीअधिकारी निर्मलरमणः तथा जर्मनइण्डियनबिजनेसअलायन्सस्य अध्यक्षः सेल्वाकुमारपेरियासामी इत्यादयः अन्ये प्रतिनिधयः च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani