Enter your Email Address to subscribe to our newsletters

पालमपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। चौधरीसर्वणकुमारहिमाचलप्रदेशकृषिविश्वविद्यालये पालमपुरे अन्तर्राष्ट्रीयधानानु-सन्धानसंस्थायाः दक्षिणएशिया-क्षेत्रीयकेन्द्रस्य वाराणसीस्थस्य परि-योजनाप्रमुख-वैज्ञानिकः डॉ. पन्नीर-सेल्वमपेरमैयनः बुधवासरे विश्व-विद्यालयस्य भ्रमणं कृतवान्। सः कृषिविश्वविद्यालयस्य अन्ताराष्ट्रिय-धानानु-सन्धानसंस्थायाश्च सहयोगात्मक-परियोजनायाः अन्तर्गतं प्रचलितानां अनुसन्धानगतिविधीनां समीक्षां कृतवान्।
इयं सहयोगात्मकपरियोजना २०२५ तमात् वर्षात् जैविककृषेः प्राकृतिककृषेश्च विभागस्य अनुसन्धानप्रक्षेत्रे संचाल्यते। परियोजनायाः मुख्योद्देश्यं प्राकृतिक-कृषिप्रणाल्याः अन्तर्गतं अनुसन्धानस्य, नवाचारस्य उन्नतप्रौद्योगिकीनां स्थाना-न्तरणस्य च माध्यमेन हिमाचलप्रदेशे धानोत्पादनं वर्धयितुम् अस्ति। तेन सह इयं परियोजना क्षेत्रस्य धानोत्पादककृषकाणां सम्मुखी-भवन्तीनां विविधसमस्यानां, यथा अनिश्चित-ऋतु-परिस्थितीनां, मृदा-उर्वरतासम्बद्धसमस्यानां तथा जल-दक्षकृषितन्त्राणां आवश्यकतायाश्च समाधानं कर्तुम् अपि प्रयतते।
स्वस्य भ्रमणसमये डॉ. पन्नीरसेल्वम-पेरमैयनेन प्रसारशिक्षानिदेशकेन परि-योजनायाः प्रधानान्वेषकेन च डॉ. जनार्दनसिंहेन सह साक्षात्कारं कृत्वा विचारविमर्शः कृतः। अस्मिन् अवसरे प्रदेशे संचाल्यमानानां अनुसन्धानपरीक्षणानां प्रदर्शानां च विद्यार्थिनां सहभागितायाः सम्भावनानां विषये चर्चा कृता। ततः डॉ. पन्नीरसेल्वमेन अनुसन्धानप्रक्षेत्रे प्रचलितानां विविधानाम् अनुसन्धान-परीक्षणानाम् अवलोकनं कृत्वा खरीफ्-धानस्य सस्यप्रदर्शनस्य मूल्याङ्कनं कृतम्। सः परियोजनायाः कार्यान्वयने संलग्नानां वैज्ञानिकानां अनुसन्धान-कर्मचारिणां च प्रयासानां प्रशंसां कृत्वा हिमाचलप्रदेशे प्राकृतिक-कृष्याधारित-धानोत्पादनप्रणालिषु अनुसन्धानं अग्रे नेतुं तेषां योगदानं महत्त्वपूर्णमिति प्रतिपादितवान्।
अनेन भ्रमणेन प्रचलितानां अनुसन्धान-गतिविधीनां तकनीकीसमीक्षायाः अवसरः प्राप्तः। हिमाचलप्रदेशस्य कृषकाणां कृते स्थायित्वपूर्णानां, उत्पादकानां पर्यावरण-दृष्ट्या सुरक्षितानां च धानाधारित-सस्यप्रणालीनां विकासस्य दिशि कृषिविश्वविद्यालयस्य आईआरआरआई-संस्थायाश्च मध्ये सहयोगात्मकप्रयासानां अधिकं सुदृढीकरणे अपि अस्य भ्रमणस्य साहाय्यं जातम्।
Hindusthan Samachar / Divya Ranjan