केन्द्रीयमन्त्री सिन्धिया अद्य शिवपुर्यां देशस्य सप्तमस्य डाकप्रशिक्षणकेन्द्रस्य भूमिपूजनं करिष्यति
शिवपुरी, ०२ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री तथा पूर्वोत्तरक्षेत्र-विकासमन्त्री ज्योतिरादित्यसिन्धिया अद्य मध्यप्रदेशस्य शिवपुरीजनपदाय उपहारद्वयं प्रदास्यति। सः अत्र देशस्य सप्तमस्य डाकप्रशिक्षण-केन्द्रस्य भूमिपूजनं तथा अत्याधुनिकस्य
ज्योतिरादित्य सिंधिया (फाइल)


शिवपुरी, ०२ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री तथा पूर्वोत्तरक्षेत्र-विकासमन्त्री ज्योतिरादित्यसिन्धिया अद्य मध्यप्रदेशस्य शिवपुरीजनपदाय उपहारद्वयं प्रदास्यति। सः अत्र देशस्य सप्तमस्य डाकप्रशिक्षण-केन्द्रस्य भूमिपूजनं तथा अत्याधुनिकस्य डाकघर इत्यस्य लोकार्पणं करिष्यति।

निर्धारितकार्यक्रमानुसारं सिन्धिया पूर्वाह्णे ११ वादने सर्वकारस्य डाकघर-आधुनिकीकरणोपक्रमस्य अन्तर्गतं अत्याधुनिकस्य शिवपुरीप्रधानडाकघर इत्यस्य लोकार्पणं करिष्यति। इदं डाकघर-आधुनिकीकरणयोजनायाः अन्तर्गतं नवदिल्ली इत्यस्या: योजनानिर्माण-वास्तुकलाविद्यालयस्य डिजाइनसम्बद्ध-निर्देशानाम् अनुरूपं पुनर्निर्मितम् अस्ति। ऐतिहासिकं सांस्कृतिकं च परिचयं संरक्षता निर्मिते अस्मिन् डाकघर इत्यत्र जनसेवाकनेक्ट् (बहुउद्देशीयनागरिक-सुविधाकेन्द्रम्) इति व्यवस्था कृता अस्ति। अत्र नागरिकेभ्यः स्पीडपोस्ट्, बचतधनागारसेवा, डाक-जीवनबीमा, आधार, पार्सल तथा वित्तीयसेवाः एकस्मिन् स्थाने उपलब्धाः भविष्यन्ति। अस्मिन् दिव्याङ्गजनेभ्यः बाधारहितप्रवेशः, सुव्यवस्थितसेवाक्षेत्राणि तथा आराम-दायकप्रतीक्षागृहस्य सुविधा प्रदत्ता अस्ति।

केन्द्रीयमन्त्री सिन्धिया शिवपुरीजनपदस्य ककरवायाक्षेत्रे (विधिमहाविद्यालयस्य समीपे) ८५ कोटिरूप्यकाणां व्ययेन निर्मीयमाणस्य देशस्य सप्तमस्य डाक-प्रशिक्षणकेन्द्रस्य भूमिपूजनं करिष्यति। अस्मिन् राष्ट्रियस्तरीये प्रशिक्षणकेन्द्रे मध्यप्रदेशस्य अतिरिक्तं समीपस्थानां अन्यराज्यानां डाकविभागीयकर्मचारिभ्यः अपि उच्चस्तरीयं प्रशिक्षणं प्रदास्यते। कार्यक्रमयोः अनन्तरं केन्द्रीयमन्त्री ग्वालियरं प्रति प्रस्थास्यति।

Hindusthan Samachar / Divya Ranjan