Enter your Email Address to subscribe to our newsletters

- गरुड-पटलस्य माध्यमेन नगरीयनिकायेषु सुशासनं आधुनिकप्रबन्धनं च प्राप्तं नूतनं वैशिष्ट्यम्
भोपालम्, ०२ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य नगरीयनिकायेषु जीआईएस-आधुनिकप्रौद्योगिक्योः माध्यमेन सुशासनस्य संवर्धनस्य उपक्रमाय राष्ट्रियं वैशिष्ट्यं प्राप्तम्। नगरीयविकास-आवासविभागस्य एकीकृत-जीआईएस-मञ्चस्य ‘गरुड’-स्य नवोन्मेषपूर्णोपयोगाय प्रदेशः प्रतिष्ठितेन ‘अचीवमेंट इन जीआईएस अवार्ड’ इत्यनेन पुरस्कारेण सम्मानितः।
जनसम्पर्काधिकारिणी अवन्तिका जायसवाले बुधवासरे उक्तवती यत् राज्यस्य नगरीयविकास-आवासविभागेन विकसितस्य एकीकृत-जीआईएस-आधारितस्य ‘गरुड’ (जीआईएस आधारित अर्बन डेटा एनालिटिक्स सेंटर) इत्यस्य उत्कृष्टस्य नवोन्मेषपूर्णस्य च उपयोगस्य कृते मध्यप्रदेशः प्रतिष्ठितेन ‘अचीवमेंट इन जीआईएस अवार्ड’ इत्यनेन सम्मानितः अस्ति। नवदिल्ल्यां आयोजिते राष्ट्रियस्तरीये समारोहे एसरी इण्डियासंस्थायाः निदेशकः अजेन्द्रकुमारः नगरीयविकास-आवासविभागस्य आयुक्ताय संकेतभोंडवे इत्यस्मै एतत् सम्मानं प्रदत्तवान्।
आयुक्तः भोंडवे उक्तवान् यत् ‘गरुड’-स्य माध्यमेन दत्तांशः निर्णयग्रहणस्य मुख्याधारः कृतः अस्ति, येन नगरीयनिकायानां वित्तीयस्थितौ, प्रशासनिकदक्षतायां नागरिकसेवावितरणव्यवस्थायां च व्यापकः सुधारः भवति।
जनसम्पर्काधिकारिणी उक्तवती यत् ‘गरुड’ एकम् अत्याधुनिकम् एकीकृतं जीआईएस-आधारितं दत्तांश-विश्लेषणकेन्द्रम् अस्ति, यत् नगरीयनिकायानां विविधशहरीय-राजस्वसम्बद्धान् च दत्तांशान् एकस्मिन् मञ्चे आनीय तेषां स्थानिकविश्लेषणं करोति। अनेन डिजिटल-नवोन्मेषेण राज्यस्य नगरीयनिकायेषु सम्पत्तेः राजस्वस्य च मानचित्र-आधारितं विश्लेषणम्, अपञ्जीकृतानां सम्भावितानां च नूतनसम्पत्तीनां सटीकं चिह्नीकरणं तथा राजस्ववर्धनाय प्रभाविणः रणनीतयः निर्मीयन्ते। तेन सह जलापूर्तेः मलजलनिस्सारणतन्त्रस्य च, भूम्युपयोगस्य, अतिक्रमणनियन्त्रणस्य, भवनानुज्ञायाः तथा नगरीयाधारभूतसंरचनायाः वास्तविक-समयस्य डिजिटल-निरीक्षणं अत्यन्तं सुदृढं पारदर्शकं च कृतम् अस्ति।
सा उक्तवती यत् गरुड-व्यवस्थायाः अन्तर्गतं विकसितस्य पर्यवेक्षण-प्रतिमानस्य माध्यमेन नागरिकसुविधानां सम्पत्तीनां च वर्तमानस्थितेः सटीकं दत्तांश-आधारितं विश्लेषणं सम्भवं भवति। एषा व्यवस्था नगरीयनिकायानां कार्यक्षमतां वर्धयितुं, आधारभूतसंरचनायाः अनुरक्षणं कर्तुं तथा जनसुविधानां सुगमप्रबन्धने निर्णायकां भूमिकां निर्वहति।
---
Hindusthan Samachar / अंशु गुप्ता