Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे संस्कृतस्य एकस्य सुभाषितस्य माध्यमेन निर्भयतया दानं कर्तुं जीवनरक्षणस्य च महत्त्वं प्रतिपादितम्।
प्रधानमन्त्रिणा मोदिना ‘एक्स’-इत्यत्र एतत् सुभाषितं लिखितम्—“अभयस्यैव यो दाता तस्यैव सुमहत्फलम्।न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् यः जनः अन्येषां भयम् अपाकृत्य तेभ्यः अभयं प्रददाति, सः महत् फलं प्राप्नोति। त्रिषु लोकेषु प्राणानां रक्षणात् श्रेष्ठतरं किमपि दानं न विद्यते। प्रधानमन्त्रिणा मानव-जीवनस्य रक्षणं सर्वोच्चं दानम् इति प्रतिपादितम्।
Hindusthan Samachar / Divya Ranjan