प्रधानमन्त्री मोदी अद्य जलशक्तिमन्त्रालयस्य विभागीय-शिखरसम्मेलनस्य समापनसत्रं सम्बोधयिष्यति
नवदिल्ली, ०२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य अत्र सुषमास्वराजभवने जलशक्तिमन्त्रालयेन आयोजितस्य द्विदिवसीयस्य विभागीय-शिखरसम्मेलनस्य समापनसत्रे सम्मिलिष्यति। अस्मिन् अवसरे सः सभां सम्बोधयिष्यति अपि। प्रधानमन्त्री-कार्यालयस्य
a28f333a65eebbbda61400ef10464258_1414769777.jpg


नवदिल्ली, ०२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य अत्र सुषमास्वराजभवने जलशक्तिमन्त्रालयेन आयोजितस्य द्विदिवसीयस्य विभागीय-शिखरसम्मेलनस्य समापनसत्रे सम्मिलिष्यति। अस्मिन् अवसरे सः सभां सम्बोधयिष्यति अपि। प्रधानमन्त्री-कार्यालयस्य विज्ञप्तौ एषा सूचना प्रदत्ता। प्रधानमन्त्रीनरेन्द्रमोदिनः परिकल्पनायाः केन्द्रे आयोजितं एतत् प्रथमं विभागीय-शिखरसम्मेलनम् अस्ति।

प्रधानमन्त्रीकार्यालयस्य विज्ञप्त्यनुसारं सम्मेलनस्य उद्देश्यम् ‘टीम इण्डिया’ इति भावनायाः सुदृढीकरणम्, सहकारी-सङ्घवादस्य अधिकं गहनकरणम्, केन्द्र-राज्ययोः मध्ये उत्तमसमन्वयस्य माध्यमेन राष्ट्रियप्राथमिकतानां प्रति सामूहिक-दायित्वस्य भावनायाः संवर्धनं च अस्ति। सम्मेलने केन्द्रसर्वकारस्य राज्य-सर्वकाराणां च राजनैतिकनेतृत्वेन सह वरिष्ठाधिकारिणः भागं गृह्णन्ति।

सम्मेलनस्य प्रथमदिने जलक्षेत्रसम्बद्धानां प्रमुखप्राथमिकतानां विषये विचार-विमर्शस्य अतिरिक्तं विभिन्न-राज्यानां श्रेष्ठकार्यप्रणालीनां परस्परं आदानप्रदानं कृत्वा कार्यान्वयनसम्बद्धानां समस्यानां समाधानान्वेषणे तथा समयबद्धकार्य-योजनायाः निर्माणे बलं प्रदत्तम्। तदतिरिक्तं जलमूलभूत-संरचनापरियोजनानां समये कार्यान्वयनम्, ‘जलसञ्चय-जनभागीदारी—कैच द रेन’, पेयजलप्रणालीसम्बद्धानां स्रोतसां निरन्तरता तथा जलजीवनमिशन-२.० अन्तर्गतं ग्रामीणपेयजलापूर्तियोजनानां सञ्चालनं परिरक्षणं च इत्येतेषु चतुर्षु प्रमुखक्षेत्रेषु चर्चा प्रारब्धा।

अस्य विचारविमर्शस्य उद्देश्यम् जलमूलभूतसंरचनापरियोजनानां गतिवर्धनम्, जलसंरक्षणे जनसह-भागितायाः वर्धनम्, पेयजलस्रोतसां दीर्घकालिकस्थायित्वस्य सुनिश्चिती-करणम् तथा ग्रामीणक्षेत्रेषु पेयजलसेवानां विश्वसनीयतायां उत्तरदायित्वे च सुधाराय दृढान् समयबद्धान् च उपायान् निर्धारयितुम् अस्ति।

Hindusthan Samachar / Divya Ranjan