पोषणमासस्य २०२६ सज्जतायाः राज्यस्तरीयसमीक्षा, जनसहभागिताद्वारा जागरूकताभियानानि संचाल्यन्ते
अन्तर्विभागीयसमन्वयेन सम्पूर्णप्रदेशे पोषणजागरूकतायाः जनभागितायाश्च कार्यक्रमाः भविष्यन्ति रायपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढे राष्ट्रियपोषणमासस्य २०२६ प्रभाविप्रभावी सफलायोजनं प्रति बुधवासरे महिलाबालविकासविभागस्य निदेशालये अन्तरविभागीय
अंतरविभागीय समन्वय बैठक  में शामिल अधिकारी-कर्मचारी


अन्तर्विभागीयसमन्वयेन सम्पूर्णप्रदेशे पोषणजागरूकतायाः जनभागितायाश्च कार्यक्रमाः भविष्यन्ति

रायपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढे राष्ट्रियपोषणमासस्य २०२६ प्रभाविप्रभावी सफलायोजनं प्रति बुधवासरे महिलाबालविकासविभागस्य निदेशालये अन्तरविभागीयसमन्वयसभायाः आयोजनं कृतम्।

सभायां विविधविभागानां सहयोगिसंस्थानां च अधिकारिभिः सहभागित्वं कृत्वा पोषणमासस्य अवधौ आयोजनीयानां गतिविधीनां रूपरेखा, विभागीयसमन्वयः क्षेत्रस्तरे च प्रभाविकार्यान्वयनं प्रति विस्तरेण विचारविमर्शः कृतः।

सभायां सूचितं यत् भारतसर्वकारस्य निर्देशानुसारं प्रदेशे सेप्टेम्बरमासः जनसहभागितया सह राष्ट्रियपोषण-मासरूपेण आचर्यते। अस्मिन् वर्षे पोषणमासस्य मुख्यविषयः “अस्माकम् आङ्गनवाडी, अस्माकं दायित्वम्” इति अस्ति। पोषणाभियानस्य उद्देश्यं बालकानां, महिलानां, गर्भवतीनां शिशुवतीनां मातॄणां किशोरीणां च पोषणस्तरस्य सुधारणेन सह समुदायेषु स्वस्थाहारस्य पोषणसम्बद्ध-व्यवहारस्य च प्रोत्साहनम् अस्ति।

सभायां पोषणमासस्य अवधौ आहारवैविध्यस्य पर्याप्तप्रोटीनसेवनस्य च, आङ्गनवाडिकेन्द्रेषु उष्णं पक्तं च भोजनं, सामुदायिकसहभागितायाः, बालविकासाय पोषणस्य प्रारम्भिकप्रेरणायाश्च तथा प्रधानमन्त्रिमातृवन्दनायोजनायाः माध्यमेन मातृस्वास्थ्याय धनराशेः प्रत्यक्षहस्तान्तरणस्य च विषयेषु विशेषरूपेण गतिविधीः संचालयितुं विषये चर्चा कृता।

अधिकारिभिः विभागीययोजनाः गतिविधयश्च परस्परं संयोज्य अन्तर्विभा-गीयसमन्वयेन पोषणाय जनान्दोलनस्य स्वरूपं दातुं बलं दत्तम्। आङ्गनवाडि-केन्द्राणां, पञ्चायतानां, विद्यालयानां तथा समुदायस्य माध्यमेन पोषणजागरूकतां व्यापकां कर्तुं अधिकाधिकजनानां सहभागितां सुनिश्चितां कर्तुं च निर्देशाः प्रदत्ताः।

सभायां स्वास्थ्यपरिवारकल्याणविभागस्य, पञ्चायतग्रामीणविकासविभागस्य, कृषिविभागस्य, उद्यानिकीविभागस्य, नगरीयप्रशासनविभागस्य, क्रीडायुव-कल्याणविभागस्य, विद्यालयशिक्षा-विभागस्य, जनसम्पर्कविभागस्य, लोक-स्वास्थ्ययान्त्रिकीविभागस्य, खाद्य-नागरिकापूर्तिविभागस्य, अनुसूचित-जातिविकासविभागस्य, आदिमजाति-कल्याणविभागस्य, कौशल-विकास-विभागस्य, राष्ट्रियग्रामीण-जीविका-उपार्जन-अभियानस्य, राष्ट्रियस्वास्थ्य-अभियानस्य, आयुषविभागस्य च सहितं सम्बद्धविभागानां प्रतिनिधयः सम्मिलिताः।

पोषणमासस्य अवधौ समुदायाधारित-गतिविधिषु, पोषणजागरूकतायां डिजिटल-निरीक्षणे च विशेषं ध्यानं दीयते। प्रदेशे पोषण-ट्रैकर इत्यस्य माध्यमेन आङ्गनवाडिकेन्द्राणां विविधपोषण-सूचकानां डिजिटल-निरीक्षणस्य व्यवस्थाऽपि कृता अस्ति।

सभायां अधिकारिभ्यः स्वस्वविभागस्य पक्षतः नोडलाधिकारिणं नामाङ्कितं कृत्वा गतिविधीनां प्रभाविसञ्चालनं परस्पर-समन्वयं च सुनिश्चितं कर्तुं कथितम्, येन पोषणमासस्य सर्वे कार्यक्रमाः निर्धारित-समयसीमायां प्रभाविरूपेण संचालयितुं शक्येरन्।

Hindusthan Samachar / Divya Ranjan