व्याघ्र संरक्षणेन सह स्थानीयजनानाम् आजीविकायाः ध्यानमवश्यं स्थापनीयम् : भूपेंद्र यादवः
नव दिल्ली, 02 सितंबरमासः (हि.स.)।केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः बुधवासरे अवदत् यत् पारिस्थितिकसंरक्षणस्य आधारः संरक्षणं, सामञ्जस्यं, मानवप्रकृत्योः सहअस्तित्वं च आधृतः भवितव्यः। सः अवदत् यत् व्याघ्रसंरक्षणं केवलं व्याघ्राणा
केंद्रीय पर्यावरण, वन एवं जलवायु परिवर्तन मंत्री भूपेंद्र यादव नई दिल्ली में ‘बाघ परिदृश्य : संरक्षण, जैव-अर्थव्यवस्था और आजीविका एवं आय सृजन के लिए पारिस्थितिकी पर्यटन’ विषय पर आयोजित अंतरराष्ट्रीय कार्यशाला के दौरान।


नव दिल्ली, 02 सितंबरमासः (हि.स.)।केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः बुधवासरे अवदत् यत् पारिस्थितिकसंरक्षणस्य आधारः संरक्षणं, सामञ्जस्यं, मानवप्रकृत्योः सहअस्तित्वं च आधृतः भवितव्यः। सः अवदत् यत् व्याघ्रसंरक्षणं केवलं व्याघ्राणां सङ्ख्यावर्धनपर्यन्तं सीमितं न भवेत्, अपितु वनानां, तृणभूमीनां, नदीनां, वन्यजीवमार्गाणां, स्थानीयसमुदायानां च समग्रसंरक्षणे बलं दातव्यम्।

भूपेन्द्रयादवः अत्र व्याघ्रपरिदृश्यः संरक्षणं जैवअर्थव्यवस्था आजीविका आयसृजनं च प्रति पारिस्थितिकीपर्यटनम् इति विषये आयोजितायाः द्विदिवसीयायाः अन्तर्राष्ट्रीयकार्यशालायाः उद्घाटनं कुर्वन् एतत् अवदत्। कार्यशालायाः आयोजनं अन्तर्राष्ट्रीयबिगकैटएलायन्स्, एशियाईविकासबैंकः तथा राष्ट्रियव्याघ्रसंरक्षणप्राधिकरणम् इत्येतैः संस्थाभिः संयुक्तरूपेण क्रियते। कार्यशाला २ तथा ३ सितम्बरदिनाङ्कयोः आयोजितेति।

सः अवदत् यत् व्याघ्राणाम् अस्तित्वं स्वस्थवनेषु, तृणभूमिषु, नदीषु, शिकारप्रजातिषु, वन्यजीवमार्गेषु, स्थानीयसमुदायेषु च प्रत्यक्षरूपेण सम्बद्धम् अस्ति। व्याघ्रपरिदृश्यानि महत्त्वपूर्णानि प्राकृतिकधनानि सन्ति, यानि जलसुरक्षायां, कार्बनशोषणे, जलवायुनियन्त्रणे, जैवविविधतासंरक्षणे, आजीविकायां च महत्त्वपूर्णं योगदानं कुर्वन्ति।

सः अवदत् यत् अधुना प्रजात्याधारितसंरक्षणात् अग्रे गत्वा एकीकृतपरिदृश्यप्रबन्धनस्य आवश्यकता अस्ति, येन पारिस्थितिकसुरक्षया सह सामाजिकआर्थिकविकासस्य अपि प्रोत्साहनं भवेत्। अस्य कृते प्रकृत्याधारितसमाधानानां, नवीनवित्तीयतन्त्राणां, समुदायाधारितपारिस्थितिकीपर्यटनस्य च प्रोत्साहनम् आवश्यकम् अस्ति।

यादवः अवदत् यत् सम्प्रति विश्वं मरुभूमीकरणस्य, मृत्तिकायाः आर्द्रतायाः ह्रासस्य, मृत्तिकागुणवत्तायाः अवनतेः च इत्यादीनां चुनौतीनां सम्मुखीभवति। एतादृशे समये व्याघ्रपरिदृश्यानां संरक्षणम् अधिकमहत्त्वपूर्णं भवति। सः अवदत् यत् स्थानीयसमुदायानां पारम्परिकज्ञानस्य उपयोगः प्रकृतिसंरक्षणेन सह स्थायिसामाजिकआर्थिकविकासाय कर्तव्यः।

सः कार्यशालायां पारम्परिकज्ञानस्य व्यवस्थितरूपेण अभिलेखनस्य तथा संरक्षणं, जैवअर्थव्यवस्थां, पारिस्थितिकीपर्यटनं च सम्बद्धासु नीतिषु तस्य समावेशस्य आवश्यकतायां बलं दत्तवान्। सः अवदत् यत् अन्तर्राष्ट्रीयबिगकैटएलायन्स् वैश्विकदक्षिणस्य स्थानीयसमुदायानां ज्ञानं एकत्रीकृत्य पारिस्थितिकसंरक्षणस्य नीतिनिर्माणे नेतृत्वं कुर्यात्।

अस्मिन् अवसरे अन्तर्राष्ट्रीयबिगकैटएलायन्स् तथा एशियाईविकासबैंकस्य मध्ये एकस्मिन् समझौताज्ञापने हस्ताक्षराणि कृतानि। अस्य अन्तर्गतं द्वे संस्थे परिदृश्यसंरक्षणे, स्थायिविकासे, क्षमतानिर्माणे, ज्ञानविनिमये, प्रकृत्याधारितवित्तीयोपक्रमेषु च परस्परं सहयोगं करिष्यतः।

यादवः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः परिकल्पनानुसारम् अन्तर्राष्ट्रीयबिगकैटएलायन्स् सप्तानां बृहद्बिडालजातीनां संरक्षणाय देशानां संस्थानां च मध्ये वैश्विकसहयोगस्य महत्त्वपूर्णं मञ्चं भवति।

भारतस्थितस्य एशियाईविकासबैंकस्य देशीयनिदेशिका मिया ओका अवदत् यत् २०२६ तमे वर्षे एशियाईविकासबैंकस्य भारतस्य च मध्ये साझेदारीया चत्वारिंशत् वर्षाणि पूर्णानि भविष्यन्ति। सा अवदत् यत् भारतं स्वस्य पारिस्थितिकसंरक्षणस्य स्थायिसामाजिकआर्थिकविकासस्य च व्यापकानुभवं व्याघ्राणां विद्यमानतायुक्तैः देशैः सह साझीकरोति। एशियाईविकासबैंकः एतेषां देशानाम् एकस्मिन् मञ्चे समागमे तथा पारिस्थितिकसंरक्षणाय स्थायिवित्तीयावसराणां निर्माणे सहयोगं करिष्यति।

कार्यशालायां बाङ्ग्लादेशस्य, भूटानस्य, कम्बोडियादेशस्य, मलेशियादेशस्य, नेपालस्य, वियतनामस्य च विशेषज्ञैः सर्वकारीयप्रतिनिधिभिश्च सह पर्यावरणमन्त्रालयस्य, विभिन्नराज्यानां वनविभागानां, व्याघ्राभयारण्याणां, विकाससाझेदाराणां, शोधकर्तॄणां, संरक्षणक्षेत्रसम्बद्धानां विशेषज्ञाणां च सहभागिता अभवत्। कार्यशालायां व्याघ्रपरिदृश्यानां संरक्षणेन सह स्थायिविकासस्य स्थानीयजीविकायाश्च प्रोत्साहनाय नवीनमार्गाणां विषये विचारविमर्शः क्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani