द्विदिवसीय-अन्ताराष्ट्रियसम्मेलनस्य आयोजनं २७ नवम्बरतः
भागलपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। तिलकामांझी-भागलपुर-विश्वविद्यालयस्य मनोविज्ञानविभागेन शिक्षासंस्कृ-त्युत्थानन्यासः, नवदिल्ली इत्यस्य सहयोगेन “भारतीयज्ञानप्रणाली तथा सततविकासलक्ष्यम्-४—एकं वैश्विका-ख्यानम्” इति विषये द्विदिवसीयस्य अन्ताराष्ट्र
आयोजन समिति के सदस्य


भागलपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। तिलकामांझी-भागलपुर-विश्वविद्यालयस्य मनोविज्ञानविभागेन शिक्षासंस्कृ-त्युत्थानन्यासः, नवदिल्ली इत्यस्य सहयोगेन “भारतीयज्ञानप्रणाली तथा सततविकासलक्ष्यम्-४—एकं वैश्विका-ख्यानम्” इति विषये द्विदिवसीयस्य अन्ताराष्ट्रियसम्मेलनस्य आयोजनं २७ तथा २८ नवम्बरमासयोः, २०२६ तमे वर्षे, संकरपद्धत्या कर्तुं निश्चितम् अस्ति। अस्य अन्ताराष्ट्रियसम्मेलनस्य मुख्यसंरक्षकः तिलकामांझी-भागलपुर-विश्वविद्यालयस्य प्रभारीकुलपतिः प्रो. बी. एस. झा तथा संरक्षकः कुलसचिवः वाणिज्य-सङ्कायाध्यक्षश्च प्रो. रामाशीषपूर्वे अस्ति।

अस्य अन्ताराष्ट्रियसम्मेलनस्य उद्देश्यं आधुनिकशिक्षायाः तथा संयुक्तराष्ट्र-सङ्घस्य सततविकासलक्ष्य-४ इत्यस्य सन्दर्भे भारतीयज्ञानप्रणाल्याः प्रासङ्गि-कतां वैश्विकस्तरे तस्याः लाभांशं च प्रकाशयितुम् अस्ति। सततविकासलक्ष्य-४ इत्यस्य मुख्योद्देश्यं सर्वेभ्यः समावेशी, समानतामूलकां गुणवत्तापूर्णां च शिक्षां सुनिश्चितं कर्तुम् तथा आजीवनाधिगमस्य अवसरान् प्रोत्साहयितुम् अस्ति।

राष्ट्रियशिक्षानीति-२०२० मध्येऽपि भारतीयज्ञानपरम्परायाः, भारतीयभाषाणां, संस्कृतेः, मूल्यानां तथा स्थानीयज्ञानस्य च शिक्षया सह संयोजनाय विशेषं बलं दत्तम् अस्ति। अस्मिन् सन्दर्भे एतदन्ताराष्ट्रिय-सम्मेलनं भारतीयज्ञानप्रणालीं आधुनिक-शिक्षया सह संयोजयित्वा सततविकास-लक्ष्य-४ इत्यस्य वैश्विकप्राप्तौ विभिन्न-स्तरेषु तस्याः योगदानस्य विषये विचारविमर्शाय महत्त्वपूर्णं मञ्चं प्रदास्यति।

सम्मेलने भारतीयशिक्षायाः ऐतिहासिक-दार्शनिकपृष्ठभूमिः, शिक्षायाः संवैधानिक-प्रावधानानि, भारतीयज्ञानप्रणाली तथा सततविकासलक्ष्यम्-४, समग्रशिक्षा, नैतिकता मूल्याश्च, आजीवनशिक्षा, महिला तथा ज्ञानहस्तान्तरणम्, स्वदेशीय-ज्ञानप्रणाली, राष्ट्रियशिक्षानीति-२०२०, प्रौद्योगिकी तथा नवाचारः, शिक्षायाः मनोवैज्ञानिक-परिप्रेक्ष्यम्, भाषा तथा शिक्षा तथा आधुनिकशिक्षायां भारतीय-ज्ञानप्रणाल्याः समावेशनम् इत्यादिषु महत्त्वपूर्णविषयेषु शोधपत्राणि आमन्त्रितानि सन्ति।

अस्मिन् अन्ताराष्ट्रियसम्मेलने देश-विदेशेभ्यः शिक्षाविदां, शोधकर्तॄणां, विद्यार्थिनां, विशेषज्ञाणां च सहभागितायाः अपेक्षा अस्ति। भारतीयज्ञानपरम्परायाः विषये भागलपुरे आयोज्यमानम् एतत् प्रथमं सम्मेलनम् अस्ति। सम्मेलनाय पञ्जीकरणप्रक्रिया ऑनलाइन तथा ऑफलाइन इति उभयविधया आरब्धा अस्ति। पञ्जीकरणाय ३० अक्टोबरपर्यन्तं समयः निर्धारितः अस्ति। इयं सूचना जनसम्पर्कपदाधिकारी डॉ. दीपककुमारदिनकरेण प्रदत्ता।

Hindusthan Samachar / Divya Ranjan