‘निरीक्षणम् एवं उपचार चिकित्सा भवद्भ्यः’ अभियानस्य शुभारम्भः, ३० नवम्बरपर्यन्तं चलिष्यति अभियानम्
सुपौलम्, ०२ सेप्टेम्बरमासः (हि.स.)। जनपदे असंक्रामकरोगाणां निवारणाय, परीक्षणाय, चिकित्सायै जनजागरूकतायै च बुधवासरे ‘जाँच एवं उपचार चिकित्सा भवद्भ्यः’ अभियानस्य अन्तर्गतं विशेषकार्यक्रमः आयोजितः। एतत् अभियानं जनपदे ३० नवम्बर २०२६ पर्यन्तं संचालितः भ
Br


सुपौलम्, ०२ सेप्टेम्बरमासः (हि.स.)। जनपदे असंक्रामकरोगाणां निवारणाय, परीक्षणाय, चिकित्सायै जनजागरूकतायै च बुधवासरे ‘जाँच एवं उपचार चिकित्सा भवद्भ्यः’ अभियानस्य अन्तर्गतं विशेषकार्यक्रमः आयोजितः। एतत् अभियानं जनपदे ३० नवम्बर २०२६ पर्यन्तं संचालितः भविष्यति। अभियानस्य अन्तर्गतं सुपौलस्य सदरचिकित्सालये, वीरपुरस्य अनुमण्डलीयचिकित्सालये, निर्मल्यां त्रिवेणीगञ्जे च तथा राघोपुरस्य रेफरलचिकित्सालये कार्यक्रमाः आयोजिताः।

अयं कार्यक्रमः मुख्यमन्त्रिणा बिहारस्य सम्राट्चौधरी, उपमुख्यमन्त्रिभ्यां बिजेन्द्र-प्रसादयादवेन विजयकुमार-चौधरिणा च तथा स्वास्थ्य-मन्त्रिणा निशान्तकुमारेण दूरदृश्यसम्पर्क-माध्यमेन राज्यस्तरे प्रारब्धानां स्वास्थ्यसम्बद्धानां प्रयासानां क्रमे आयोजितः। अभियानस्य मुख्योद्देश्यं असंक्रामकरोगाणां प्रभावं न्यूनीकर्तुं तथा सामान्यजनानां कृते समये उत्तमस्वास्थ्यसुविधाः उपलब्धाः कारयितुम् अस्ति। अस्य अन्तर्गतं उच्चरक्तचापस्य, मधुमेहस्य, मुखकर्करोगस्य, स्तनकर्क-रोगस्य, गर्भाशयग्रीवा-कर्करोगस्य, दमरोगस्य, सीओपीडी-रोगस्य, अमादकवसायुक्त-यकृत्-रोगस्य हृदयसम्बद्धरोगाणाम् इत्येतै: च सहितं विविधेषु असंक्रामकरोगेषु निवारणं, परीक्षणं चिकित्सा च विशेषतया क्रियते।

कार्यक्रमस्य समये ३० वर्षेभ्यः अधिकवयस्केषु जनानां उच्चरक्तचापस्य, मधुमेहस्य, दमरोगस्य वसायुक्तयकृत्-रोगस्य च परीक्षणे विशेषबलं प्रदत्तम्। तेन सह आशाकार्यकर्तृभिः सीबीएसी-प्रपत्रस्य आहारसम्बन्धिचेकलिस्ट्-पत्रस्य च पूरणे तथा जनान् स्वस्थजीवनशैल्याः सन्तुलिताहारस्य च विषये जागरूकान् कर्तुं विशेषबलं प्रदत्तम्।

सुपौलस्य सदरचिकित्सालये आयोजिते कार्यक्रमे जनपदाधिकारी सावनकुमारः, सुपौलनगरपरिषदः मुख्यपार्षदः राघवेन्द्र:-झा, सिविलसर्जनः डॉ. बाबुसाहेबझा, एसीएमओ डॉ. आनन्दशङ्कर-प्रसादसिन्हा, एनसीडीओ डॉ. ममताकुमारी, जनपदकार्यक्रम-प्रबन्धकः बालकृष्णचौधरी, जन-पदानुश्रवण-मूल्याङ्कनाधिकारी शशिभूषणप्रसादः, चिकित्सालयप्रबन्धकः अभिनवानन्दः, डॉ. अलकाकुमारी, निरञ्जनकुमारः, एफएलए अतुलानन्दः, दत्तांश-सञ्चालकः रञ्जीतकुमार-जयसवालः, डीईओ अर्चनाकुमारी, एएनएम इत्यादयः अन्ये स्वास्थ्यकर्मिणश्च उपस्थिताः आसन्।

स्वास्थ्यविभागस्य पक्षतः जनान् आहूतं यत् ते असंक्रामकरोगाणां समये परीक्षणं कारयेयुः तथा स्वस्थजीवनशैलीम् अङ्गीकृत्य एतेभ्यः रोगेभ्यः रक्षणाय आवश्यकाः सावधानताः पालयेयुः।

Hindusthan Samachar / Divya Ranjan