Enter your Email Address to subscribe to our newsletters

-उपमुख्यमंत्री केशव प्रसाद मौर्यः ब्रजेश पाठकः च उपस्थितौ
लखनऊ, 02 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य शुभारम्भं कृतवान्। अधुना आउटसोर्सकर्मचारिणां शोषणं न भविष्यति। सम्पूर्णस्य आउटसोर्समानवसंसाधनप्रबन्धनस्य अङ्कीयैकीकरणाय उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य शुभारम्भः तथा च तस्य पोर्टलस्य जालस्थलस्य च लोकार्पणं कृतम्। अस्मिन् अवसरे उपमुख्यमन्त्रिणौ केशवप्रसादमौर्यः ब्रजेशपाठकश्च अपि उपस्थितौ आस्ताम्। मुख्यमन्त्रिणा लाभार्थिभ्यः प्रदर्शनरूपेण धनादेशाः अपि प्रदत्ताः।
कार्यक्रमं सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् पूर्वस्य समाजवादीपक्षस्य सर्वकारे सैफईसिण्डिकेट् शोषणं करोति स्म। अधुना आउटसोर्सकर्मचारिभ्यः तेषाम् अधिकारः प्राप्स्यते। कश्चित् अपि तेषां शोषणं कर्तुं न शक्नोति।
योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशस्य विकासयात्रा विगतेषु सार्धनववर्षेषु येन प्रकारेण अग्रे गता, सा तेषामेव कार्मिकाणां प्रयत्नैः सम्भवा अभवत्। अतः शासनस्य दायित्वं भवति यत् प्रत्येकस्य कार्मिकस्य गरिमानुरूपं सम्मानं तस्मै प्राप्येत। उत्तरप्रदेशस्य आउटसोर्ससेवानिगमः तस्यैव गरिमायाः स्थापनायै सर्वकारस्य प्रयासः अस्ति।
मुख्यमन्त्री अवदत् यत् पूर्वं व्यवस्था त्रिषु पक्षेषु विभक्ता आसीत् कार्मिकः, अभिकरणं सर्वकारश्च। प्रायः कर्मचारिणः स्वसमस्यासु पृथक् पृथक् द्वारेषु गन्तुं बाध्याः भवन्ति स्म। समस्या उत्पन्ने सति तस्याः श्रवणं कर्तुं कोऽपि न भवति स्म। सर्वकारस्य कर्मचारिणश्च सम्बन्धः केवलं वेतनस्य कार्यस्य च न भवितव्यः, अपितु विश्वासस्य सम्बन्धः भवितव्यः। कर्मचारिणा अनुभावितव्यं यत् तस्य उत्तमकार्यस्य अभिलेखः संरक्ष्यते, तस्य समस्याश्रवणाय च समुचितं तन्त्रम् अस्ति। सः एकाकी नास्ति। तस्य वेतनं समयेन प्राप्नुयात्, भविष्यनिधिः बीमाव्यवस्था च सुरक्षितौ भवेताम्। आउटसोर्सकर्मचारिणे तस्य परिश्रमानुरूपं वेतनं दातव्यम् तथा तस्य श्रमस्य सम्मानः करणीयः। पूर्वं एतादृशी व्यवस्था नासीत्।
मुख्यमन्त्रिणा उक्तं यत् सामाजिकभेदभावस्य दूरीकरणाय आर्थिकभेदभावस्य दूरीकरणमपि आवश्यकम्। प्रदेशे सार्धत्रिलक्षाधिकाः आउटसोर्सकर्मचारिणः सन्ति। सुशासनस्य प्रथमः आधारः संवेदनशीलता अस्ति। नूतनव्यवस्थायाः प्रवर्तनानन्तरं अधिकारः कस्यचित् व्यक्तेः कृपायाः आधारेण न प्राप्स्यते। सर्वा सूचना पोर्टले उपलब्धा भविष्यति। अस्य निगमस्य माध्यमेन विंशतिलक्षजनानां सुरक्षा कवचं प्रदातुं सर्वकारस्य लक्ष्यं वर्तते।
अधुना विभागः, अभिकरणं कर्मचारी च तान्त्रिकरूपेण परस्परं सम्बद्धाः भविष्यन्ति। नियुक्तिः अन्तर्जालमाध्यमेन भविष्यति। राज्यसर्वकारस्य आरक्षणनीतिः प्रवर्तिष्यते। कर्मचारीसेवाविवरणं, बैंकखाताविवरणम् इत्यादीनि सम्पूर्णानि विवरणानि एकस्मिन् पोर्टले उपलब्धानि भविष्यन्ति। प्रत्येकमासस्य पञ्चम्यां तिथौ कर्मचारिणां बैंकखाते मानधनस्य प्रेषणम् अनिवार्यं भविष्यति। भविष्यनिधेः धनराशिं सर्वकारः पृथक् प्रदास्यति।
कश्चिदपि आउटसोर्सकम्पनी स्वेच्छया कर्मचारिणं सेवातः निष्कासयितुं न शक्ष्यति। अभिकरणेन प्रथमं सर्वकारं सूचयितव्यं भविष्यति तथा च प्रकरणस्य परीक्षणं भविष्यति। मिथ्यारोपे सिद्धे सति अभिकरणं कर्मचारिणं सेवातः बहिः कर्तुं न शक्ष्यति। मातृत्वावकाशः अन्याः सेवाश्च प्रदास्यन्ते। भारतीयस्टेटबैंकेन सह समझौतापत्रमपि हस्ताक्षरितम् अस्ति। विंशतिलक्षरूप्यकात् पञ्चाशल्लक्षरूप्यकपर्यन्तं बीमासुरक्षाकवचं प्रदास्यते। आकस्मिकचिकित्सायै पञ्चलक्षरूप्यकाणां प्रावधानं कृतम् अस्ति। एतादृश्यः अन्याः बह्व्यः सुविधाः अपि प्रदास्यन्ते।
उत्तरप्रदेशे तृतीयवारमपि भाजपासर्वकारः भविष्यति इति केशवप्रसादमौर्यः
उपमुख्यमन्त्री केशवप्रसादमौर्यः अवदत् यत् अधुना आउटसोर्समाध्यमेन कार्यं कुर्वतां कर्मचारिणां पार्श्वेभ्यः धनवसूली कर्तुं न शक्ष्यते। अधुना ते पूर्णं मानधनं प्राप्स्यन्ति। आउटसोर्सकम्पन्या काचित् अनियमितता कृता चेत् तस्याः विरुद्धं कठोरं कार्यं भविष्यति। एषा व्यवस्था कर्मचारिणां कृते सुरक्षा कवचम् अस्ति। तेषां दायित्वमपि वर्धितम् अस्ति। अतः आउटसोर्सकर्मचारिभिः अपि सजगैः भवितव्यम्। तेषु कस्यचित् आरोपः भवति चेत् तस्य परीक्षणं भविष्यति तथा अनियमिततायां तेषाम् विरुद्धमपि कार्यवाही भवितुं शक्नोति। अतः सर्वैः पूर्णदायित्वेन कार्यं करणीयम्। अधुना उत्तरप्रदेशे प्रायः द्विगुणं मानधनं प्राप्स्यते। सर्वकारस्य लक्ष्यं भ्रष्टाचाररहिताम् आउटसोर्सव्यवस्थां प्रदातुम् अस्ति।
सः अवदत् यत् अस्मिन् अवसरे राजनीतिकचर्चा न भवेत् इति उचितं नास्ति। यत्र अस्माकं सर्वकारः भवति, तत्र सः पुनः पुनः भवति। तृतीयवारमपि सर्वकारः भवति। उत्तरप्रदेशेऽपि तृतीयवारं सर्वकारस्य निर्माणं निश्चितरूपेण भविष्यति। सः जनानां प्रति आह्वानं कृतवान् यत् २०२७ तमे वर्षे पुनः भाजपासर्वकारस्य निर्माणाय समर्थनं कुर्वन्तु तथा कस्यापि प्रलोभनेन भ्रमिताः न भवन्तु। यदि कस्यचित् अपराधिनः विरुद्धं कार्यवाही क्रियते तर्हि समाजवादीपक्षस्य प्रमुखः अखिलेशयादवः सर्वाधिकं पीडां अनुभवति। अखिलेशयादवः यथेष्टं कोलाहलं करोतु, प्रदेशस्य योगी आदित्यनाथस्य सर्वकारः अपराधिनां विरुद्धं कठोरकार्यवाहीं निरन्तरं करिष्यति।
उपमुख्यमन्त्री ब्रजेशपाठकेन अवधिभाषया संवादः कृतः
उपमुख्यमन्त्री ब्रजेशपाठकः सभागारे उपविष्टान् युवजनान् अवधिभाषया सम्बोधयन् अवदत् यत् योगिसर्वकारः जनानाम् आवश्यकतानुसारं कार्यं करोति। पूर्वं भैया अर्थात् समाजवादीपक्षस्य सर्वकारः गृहात् सञ्चालितः भवति स्म। आउटसोर्सव्यवस्थायां कार्यं कुर्वतां जनानां सेवासुरक्षा भविष्यति इति भवन्तः कदापि न चिन्तितवन्तः स्युः। मुख्यमन्त्री योगी आदित्यनाथः भवतां चिन्तां कृतवान् अस्ति। भवन्तोऽपि मनोयोगेन कार्यं कुर्वन्तु।
वार्तालापस्य मध्ये एव पाठकेन पुनः योगिसर्वकारस्य चयनाय आह्वानं कृतम्। उत्तरप्रदेशे आउटसोर्सव्यवस्थायाम् कार्यं कुर्वतां कर्मचारिणां संख्या त्रिलक्षात् अधिका अस्ति। सः आह्वानं कृतवान् यत् सर्वे जनाः सर्वत्र सक्रियाः भवन्तु तथा पुनः भाजपासर्वकारस्य निर्माणाय योगी आदित्यनाथं मुख्यमन्त्रिपदे स्थापयितुं प्रयत्नं कुर्वन्तु।-----------