Enter your Email Address to subscribe to our newsletters

लखनऊ, ०२ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः प्रदेशे इन्फ्लुएञ्जा-ए (एच १ एन १) इति रोगस्य परीक्षणं सर्वेषु जनपदचिकित्सालयेषु, सामुदायिकस्वास्थ्यकेन्द्रेषु, प्राथमिक-स्वास्थ्यकेन्द्रेषु, चिकित्सामहाविद्यालयेषु च सर्वेषु सर्वकारीयस्वास्थ्यसंस्थानेषु निःशुल्कं कारयितुं निर्देशान् दत्तवान्। सः अवदत् यत् अधिकरोगिणां जनपदेषु निगरानी-चिकित्साव्यवस्थे अधिकं सुदृढे क्रियेते तथा चिकित्सालयेषु औषधानां, परीक्षणस्य, पृथक्करणस्य च पर्याप्ता व्यवस्था सुनिश्चितां क्रियताम्। गम्भीररोगिभ्यः पृथक् अतिदक्षताविभागाः सज्जाः क्रियन्ताम्। मुख्यमन्त्रिणा एच १ एन १ इति रोगस्य निवारण-चिकित्सयोः सम्बन्धे विस्तृता मार्गदर्शिका निर्गन्तुं दूरपरामर्शव्यवस्थां च प्रभावशालिनीं कर्तुं निर्देशाः अपि दत्ताः।
बुधवासरे उपमुख्यमन्त्रिणा ब्रजेशपाठकेन राज्यमन्त्रिणा मयङ्केश्वरशरणसिंहेन च सह प्रदेशे इन्फ्लुएञ्जा-ए (एच १ एन १) तथा ऋतुकालिक-इन्फ्लुएञ्जा इत्यनयोः स्थितेः समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् रोगिणां समये एव परिचयः उपचारश्च सुनिश्चितौ क्रियेते। यत्र कुत्रापि रोगिणां सङ्ख्यायां वृद्धिः भवति, तत्र निरीक्षणं वर्धयित्वा तत्कालम् आवश्यकाः चिकित्साव्यवस्थाः क्रियन्ताम्। निजी-चिकित्सासंस्थाभिः परीक्षणाय पूर्व-निर्धारितशुल्कात् अधिकं शुल्कं न गृह्यते, इदमपि सुनिश्चितं क्रियताम्।
सभायां विशेषज्ञैः मुख्यमन्त्रिणे सूचितं यत् इन्फ्लुएञ्जा-ए (एच १ एन १) इति इन्फ्लुएञ्जा-ए-विषाणोः एकः प्रकारः अस्ति तथा च सः ऋतुकालिक-इन्फ्लुएञ्जायाः श्रेण्यां समाविष्टः अस्ति। अस्य संक्रमणं मुख्यतया कासेन क्षुत्याः च निर्गताभिः सूक्ष्मबिन्दुभिः प्रसारितं भवति। ज्वरः, नासिकायाः स्रावः, कासः, कण्ठे वेदना, शिरोवेदना, शरीरवेदना, शीतानुभवः, नेत्रयोः रक्तिमा च अस्य प्रमुखलक्षणानि सन्ति। सूचितं यत् द्वितीयसेप्टेम्बरमासपर्यन्तं प्रदेशे इन्फ्लुएञ्जा-ए (एच १ एन १) इत्यस्य ६८५ प्रयोगशालापुष्टानि प्रकरणानि प्राप्तानि सन्ति।
मुख्यमन्त्री अवदत् यत् सामान्य-लक्षणयुक्तेभ्यः रोगिभ्यः चिकित्सकीय-परामर्शानुसारं गृहे विश्रामस्य स्वपृथक्करणस्य च परामर्शः दीयताम्, गम्भीरेभ्यः रोगिभ्यः तु तत्कालं चिकित्सासुविधा प्रदीयताम्। सः बालकेषु, गर्भवतीषु महिलासु, पञ्चषष्टिवर्षेभ्यः अधिकवयस्केषु, पूर्वमेव गम्भीररोगैः पीडितेषु च विशेषं ध्यानं दातुं निर्देशं दत्तवान्। एएनएम्, आशा-कार्यकर्तॄणां तथा अन्येषां स्वास्थ्यकर्मचारिणां सहयोगेन सघनपरीक्षणाभियानं चालयित्वा सम्भावितरोगिणां परिचयं कर्तुं तथा आवश्यकतानुसारं गृहपृथक्करणस्य, मुखावरणस्य, संक्रमणनिवारणस्य च अन्येषाम् उपायानां विषये सूचना-सहायता च प्रदातुं निर्देशः दत्तः। चिकित्सालयेषु इन्फ्लुएञ्जासदृशलक्षणयुक्तानां रोगिणां कृते पृथक् पटलं निर्मातुम् अपि निर्देशः दत्तः।
मुख्यमन्त्री अवदत् यत् चिकित्सालयेषु अनावश्यकः भारः न वर्धेत् तथा गम्भीररोगिभ्यः समये उपचारः लभेत्, एतदर्थं रोगिणां स्थित्यनुसारं स्थानान्तरणव्यवस्था क्रियेताम्। गम्भीर-लक्षणयुक्तान् रोगिणः एव चिकित्सालयं प्रेषयित्वा तेषां कृते समुचितचिकित्सायाः अतिदक्षताविभागस्य च व्यवस्था सुनिश्चितां क्रियताम्। विशेषज्ञैः सूचितं यत् श्वासग्रहे कठिनता, वक्षसि वेदना, अत्यधिकजडता, रक्तप्रभावस्य न्यूनता, रक्तमिश्रितकफः अथवा नखानां नीलवर्णता च गम्भीरस्थितेः सूचकाः भवितुम् अर्हन्ति। बालकेषु निरन्तरं तीव्रज्वरः, आहारग्रहणे असमर्थता, आक्षेपाः, तीव्रश्वसनं वा श्वासग्रहे कठिनता तथा पूर्वविद्यमानरोगस्य स्थितेः अवनतिः अपि गम्भीरलक्षणानि सन्ति।
सभायां सूचितं यत् प्रदेशे ओसेल्टामिविर्-कैप्सूल, सिरप तथा एच १ एन १-टीकायाः पर्याप्ता उपलब्धता अस्ति। जनपदीय-चिकित्सालयेषु सहायता-कक्षः, परीक्षणाय नमूनासङ्ग्रहः, पृथक् फ्लू-बहिरोगि-विभागश्च व्यवस्थिताः सन्ति। सर्वेषु चिकित्सामहाविद्यालयेषु अपि फ्लू-सहायताकक्षः, आवश्यकपरीक्षणानि, औषधानि, पृथक्करणशय्याः च उपलब्धाः सन्ति।
एसजीपीजीआई-संस्थायाः निदेशकः डॉ. आर.के. धीमानः, केजीएमयू-कुलपतिः डॉ. सोनिया नित्यानन्दः तथा राममनोहर-लोहियाचिकित्साविज्ञानसंस्थानस्य, लखनऊ इत्यस्य निदेशकः डॉ. सी.एम. सिंहः मुख्यमन्त्रिणे स्वस्वसंस्थानेषु उपलब्धानां चिकित्साव्यवस्थानां, परीक्षणस्य, औषधानां च उपलब्धतायाः विषये सूचितवन्तः। सभायां सूचितं यत् चिकित्सामहाविद्यालयेषु फ्लू-बहिरोगि-विभागस्य पृथक्करणशय्यानां च व्यवस्था अस्ति तथा परीक्षणाय पर्याप्ताः आरटीपीसीआर-किट् उपलब्धाः सन्ति।
मुख्यमन्त्री अवदत् यत् संक्रमणस्य निवारणाय जनजागरूकताभियानं प्रभावशालि क्रियताम्। किं करणीयम् किं न करणीयम् इत्यस्य सरलां, सम्यक्, तथ्याधारितां च सूचनां जनानां पर्यन्तं प्रापयेत्, येन अनावश्यकभयस्य स्थितिः न जायेत। चिकित्सालयेषु जनसम्मर्दयुक्तेषु स्थानेषु च हस्तस्वच्छतायाः, कासकाले क्षुतिकाले च सावधानतायाः, संक्रमण-निवारणोपायानां च विषये व्यापकप्रचारः प्रसारश्च क्रियताम्।
मुख्यमन्त्री निर्देशान् दत्तवान् यत् एच १ एन १ इति रोगस्य स्थितौ निरन्तरं दृष्टिः स्थाप्यताम् तथा कस्मिन्नपि जनपदे रोगिणां सङ्ख्यायां वृद्धिः दृश्यते चेत् तत्कालम् आवश्यकाः उपायाः क्रियन्ताम्। सः अवदत् यत् रोगस्य समये परिचयः, आवश्यकतावतः रोगिणः शीघ्रचिकित्सा, पर्याप्तचिकित्सासंसाधनानाम् उपलब्धता तथा जनानां पर्यन्तं सम्यक्सूचनायाः प्रापणं च संक्रमणेन सह संघर्षस्य प्रभावशालिनी रणनीतिः अस्ति।
Hindusthan Samachar / Divya Ranjan