जन्माष्टमीतः पूर्वं काशी विश्वनाथ धाम्नः लड्डू गोपालाय मथुरायै प्रेषितवान् विशेषम् उपहारम्
वाराणसी, 02 सितम्बरमासः (हि.स.)। सनातनसंस्कृतेः द्वयोः प्रमुखयोः आध्यात्मिककेन्द्रयोः काश्याः मथुरायाश्च मध्ये श्रद्धासमर्पणयोः सांस्कृतिकविनिमयस्य च अनन्यपरम्परायाः संवर्धनम्।श्रीकृष्णजन्माष्टम्याः पूर्वं बुधवासरे श्रीकाशीविश्वनाथधामतः भगवान् श्री
e55191e273c30b43ff680b6e43da6a5c_340966040.jpg


db94962d9e6de711527f24a88ecd7445_2710073.jpg


वाराणसी, 02 सितम्बरमासः (हि.स.)। सनातनसंस्कृतेः द्वयोः प्रमुखयोः आध्यात्मिककेन्द्रयोः काश्याः मथुरायाश्च मध्ये श्रद्धासमर्पणयोः सांस्कृतिकविनिमयस्य च अनन्यपरम्परायाः संवर्धनम्।श्रीकृष्णजन्माष्टम्याः पूर्वं बुधवासरे श्रीकाशीविश्वनाथधामतः भगवान् श्रीलड्डूगोपालस्य कृते विशेषोपहारसामग्री श्रीकृष्णजन्मस्थानं मथुरां प्रति प्रेषिता। वर्षे २०२४ तमे श्रीकृष्णजन्माष्टमीपर्वणि अस्याः अभिनवधार्मिकसांस्कृतिकपहलस्य प्रारम्भः अभवत्। अस्याः योजनायाः अन्तर्गतं श्रीकाशीविश्वनाथधामस्य पक्षतः भगवान् श्रीविश्वेश्वरमहादेवस्य आशीर्वादः उपहारसामग्री च श्रीकृष्णजन्मस्थानमथुरायां विराजमानाय श्रीलड्डूगोपालाय प्रेषिता आसीत्।

अस्यैव क्रमस्य अन्तर्गतं रङ्गभरीएकादश्याः अवसर परस्परभेटीनां श्रद्धासन्देशानां च काश्यामथुरयोर्मध्ये विनिमयस्य परम्परा अपि अग्रे वर्धिता। अस्याः पहलस्य उद्देश्यं सनातनधर्मस्य प्रमुखतीर्थानां मन्दिराणां च मध्ये आध्यात्मिकसंवादं सांस्कृतिकसमन्वयं परस्परश्रद्धासम्बन्धानां च अधिकं सुदृढीकरणम् अस्ति।

चतुर्थे सितम्बरदिने आयोज्यमानस्य श्रीकृष्णजन्माष्टमीपर्वणः पूर्वं लड्डूगोपालस्य कृते सज्जीकृता विशेषोपहारसामग्री श्रीकाशीविश्वनाथमन्दिरे भगवान् श्रीविश्वेश्वरमहादेवस्य सम्मुखे विधिविधानपूर्वकं पूजिता। सामग्री भगवान् श्रीविश्वेश्वराय समर्प्य तस्य आशीर्वादः प्राप्तः। ततः वैदिकमन्त्राणां घोषेण पूजाऽर्चनया च सह भेटीसामग्री श्रद्धापूर्वकं श्रीकृष्णजन्मस्थानं प्रति प्रेषिता।

अस्मिन् अवसरे श्रीकाशीविश्वनाथमन्दिरन्यासस्य अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्। कार्यक्रमः पारम्परिकगरिमया पूर्णश्रद्धाभावेन च सम्पन्नः।

पञ्चदशदेशेभ्यः शताधिकदेवालयेभ्यः प्राप्ताः शुभकामनासन्देशाः

श्रीकाशीविश्वनाथमन्दिरन्यासस्य अनुसारम् अस्मिन् वर्षे अस्य नवाचारस्य अधिकं व्यापकं स्वरूपं प्रदत्तम् अस्ति। देशविदेशयोः विभिन्नेषु देवालयेषु विराजमानानां देवानां पक्षतः श्रीकृष्णजन्माष्टमीपर्वणि शुभकामनासन्देशाः श्रीकृष्णजन्मस्थानन्यासाय प्रेषयितुं पहलः कृता अस्ति। अस्याः पहलस्य समन्वयः श्रीकाशीविश्वनाथमन्दिरन्यासेन स्वकीयेन संस्थागतज्ञानसहभागिना टेम्पलकनेक्ट इत्यनेन सह क्रियते।

अधुना पर्यन्तं प्रायः पञ्चदशदेशेभ्यः शताधिकदेवालयेभ्यः शुभकामनासन्देशाः श्रीकाशीविश्वनाथमन्दिरन्यासाय प्राप्ताः सन्ति। एते सन्देशाः भेटीसामग्रीभिः सह श्रीकृष्णजन्मस्थानन्यासाय प्रेष्यन्ते।

देशविदेशयोः मन्दिरैः अभिनवाचारस्य प्रशंसा

मन्दिरन्यासस्य अनुसारं वर्षे २०२४ तमे प्रारब्धायाः अस्याः अभिनवपरम्परायाः देशविदेशयोः विभिन्नेभ्यः मन्दिरेभ्यः धार्मिकसंस्थाभ्यश्च सकारात्मकप्रतिक्रिया प्राप्ता अस्ति। श्रीकृष्णजन्माष्टमीपर्वणि विभिन्नेभ्यः मन्दिरेभ्यः धार्मिकसंस्थाभ्यश्च निरन्तरं शुभकामनासन्देशाः अभिनन्दनसन्देशाश्च प्राप्यन्ते। एषा पहलः काश्यामथुरयोः मध्ये धार्मिकसांस्कृतिकसम्बन्धानां सुदृढीकरणाय महत्त्वपूर्णा मन्यते।

काशीमथुरयोः परम्परा सनातनैकात्मतायाः सन्देशः

श्रीकृष्णः भगवान् शिवश्च सनातनधर्मस्य महान् आध्यात्मिकपरम्परायाः प्रमुखौ आराध्यस्वरूपौ स्तः। उभयोः प्रति श्रद्धाभक्त्योः अस्य सांस्कृतिकविनिमयस्य परम्परा धार्मिकसौहार्दस्य सनातनैकात्मतायाश्च सुदृढीकरणाय महत्त्वपूर्णा मन्यते।

काशी मथुरा च भारतीयसनातनसंस्कृतेः आध्यात्मिकचेतनायाश्च प्रमुखे केन्द्रे स्तः। उभयोः तीर्थयोः मध्ये विकसित्यमाना एषा परम्परा सनातनसमाजाय एकत्वस्य संवादस्य सहभक्तेः पारस्परिकश्रद्धायाश्च सन्देशं ददाति।

श्रीकाशीविश्वनाथमन्दिरन्यासस्य मुख्यकार्यपालकाधिकारी विश्वभूषणमिश्रेण अधिकारिभ्यः कर्मचारिभ्यश्च निर्देशः प्रदत्तः यत् न्यासस्य पक्षतः प्रारब्धानां धार्मिकसांस्कृतिकजनहितकारीणां च नवाचाराणां निरन्तरतां संरक्ष्य भविष्ये तेषां स्थायिस्वरूपं सुनिश्चितं क्रियताम्। तेन एतदपि सुनिश्चितं कर्तुं निर्दिष्टं यत् कस्मिन्नपि परिस्थितौ एतासां परम्पराणां श्रृङ्खला बाधिता न भवेत्। उपस्थितैः अधिकारिभिः कर्मचारिभिश्च अपि एताः पहलाः निरन्तरं अग्रे वर्धयितुं पूर्णसहयोगं च प्रदातुं संकल्पः व्यक्तः।

मथुरायां जन्माष्टमीमहोत्सवे सहभागितां करिष्यति मुख्यकार्यपालकाधिकारी

श्रीकाशीविश्वनाथमन्दिरन्यासस्य मुख्यकार्यपालकाधिकारी स्वयं मथुरायाम् आयोजिते श्रीकृष्णजन्माष्टमीमहोत्सवे सहभागितां करिष्यति। श्रीकृष्णजन्मस्थाने आयोजिते अस्मिन् पावने पर्वणि काशीविश्वनाथधामस्य श्रीकृष्णजन्मस्थानस्य च मध्ये स्थापितायाः आध्यात्मिकसांस्कृतिकपरम्परायाः अधिकसुदृढीकरणस्य दिशि संवादः सहभागिता च अग्रे वर्धयिष्येते।

---------------

Hindusthan Samachar / Dheeraj Maithani