Enter your Email Address to subscribe to our newsletters

वाराणसी, ०२ सेप्टेम्बरमासः (हि.स.)। वस्त्रमन्त्रालयस्य वस्त्रायुक्ता वृन्दा मनोहरदेसाई बनारसस्य पूर्वाञ्चलस्य च वस्त्रोद्योगाय वैश्विकमञ्चं प्रदातुं प्रतिस्पर्धात्मकतां वर्धयितुं अन्ताराष्ट्रिय-मानकानां च स्वीकरणे बलं दत्तवती। सा स्थानीयवस्त्रनिर्मातृभ्यः, निर्यातकेभ्यः, एमएसएमई-हितधारकेभ्यश्च वैश्विक-विपणस्य परिवर्त-मानानाम् आवश्यक-तानाम् अनुरूपं स्वं सज्जयितुं केन्द्रसर्वकारस्य विविध-योजनानां च अधिकतमं लाभं ग्रहीतुं आह्वानं कृतवती।
बुधवासरे वाराणस्यां एकस्मिन् होटले भारतसर्वकारस्य वस्त्रमन्त्रालयस्य अधीनस्थया वस्त्रसमित्या सञ्चालितस्य टेक्स्टाइल एक्सपोर्ट फैसिलिटेशन सेन्टर, वाराणसी इत्यस्य पक्षतः जागरूकता-कार्यक्रमः आयोजितः। कार्य-क्रमं सम्बोधयन्ती वस्त्रायुक्ता अवदत् यत् भारतीयवस्त्रोद्योगस्य वैश्विकबाजारे स्वीयां सहभागितां वर्धयितुं व्यापकाः सम्भावनाः सन्ति। एतदर्थं उत्पादानां गुणवत्तायां, प्रतिस्पर्धात्मकतायां, अन्ता-राष्ट्रिय-मानकानुरूपेण उत्पादनं च विशेषतया ध्यानं दातव्यम्।
वस्त्रसमित्याः सचिवः कार्तिकेय ढाण्डा टेक्स्टाइल एक्सपोर्ट फैसिलिटेशन सेन्रस्य भूमिकायाः विषये प्रकाशं पातयन् अवदत् यत् एतादृशानि सुविधाकेन्द्राणि निर्यातकेभ्यः विपणसम्बद्धां आवश्यक-सूचनां सर्वेषु स्तरेषु मार्गदर्शनं च प्रदातुं प्रतिबद्धाः सन्ति। अस्य उद्देश्यं क्षेत्रीयोत्पादानां वैश्विकविपणै परिचयं कारयितुं निर्यातं च प्रोत्साहयितुम् अस्ति।
कार्यक्रमस्य मुख्यविषयः ‘वैश्विकप्रति-स्पर्धात्मकतायाः निर्माणम् : भारत-यूरोपीयसङ्घयोः मध्ये प्रस्तावितं मुक्तव्यापारसन्धिं तथा वस्त्रक्षेत्राय निर्यातप्रोत्साहनाभियानम्’ इति आसीत्। अस्य उद्देश्यं वाराणस्याः पूर्वाञ्चलस्य च वस्त्रनिर्मातृभ्यः निर्यातकेभ्यश्च अन्ता-राष्ट्रियविपणस्य, विशेषतः यूरोपीय-सङ्घस्य विपणस्य, उपलब्धानाम् अवसरानां विषये परिचयं कारयितुम् आसीत्।
वस्त्रसमित्याः सहायकनिदेशकः अम्बरीश-सिंहः भारत-यूरोपीयसङ्घयोः मुक्त-व्यापारसन्धे: अन्तर्गतं स्थानीय-वस्त्रोद्योगाय सम्भावितानाम् अवसरानां, शुल्करियायतीनां, मूलस्थान-सम्बद्ध-नियमानां, आवश्यकतथ्यकरणस्य च विषये सूचनां दत्तवान्। सः निर्यातकेभ्यः एफटीए-प्रावधानानां लाभं प्राप्तुं आवश्यकाः प्रक्रियाः अनुपालनानि च विस्तरेण अवगतवान्।
एक्जिम्-बैङ्क्, लखनऊस्य क्षेत्रीयप्रमुखः आशीषसोनी निर्यातप्रोत्साहनाभियानस्य विषये सूचनां दत्त्वा निर्यातकेभ्यः एमएसएमई-संस्थाभ्यश्च उपलब्धायाः वित्तीय-सामरिकसहायतायाः विषये प्रकाशं पातितवान्। अपरतः डीजीएफटी-पक्षतः निर्यातप्रक्रियायाः तत्सम्बद्धानां मार्गदर्शकनिर्देशानां च विषये विशेष-प्रस्तुतिः प्रदत्ता।
कार्यक्रमे संयुक्तडीजीएफटी-वाराणसी आलोकद्विवेदी, कार्पेट्-एक्सपोर्ट्-प्रमोशन-काउन्सिल इत्यस्य उपाध्यक्षः असलममहबूबः तथा पूर्वी-उत्तरप्रदेशस्य निर्यातकसङ्घस्य कोषाध्यक्षः राजेश-कुशवाहः इत्यादयः वस्त्रक्षेत्रसम्बद्धाः अनेके प्रतिनिधयः उपस्थिताः आसन्।
कार्यक्रमस्य अन्तिमचरणे प्रश्नोत्तर-संवादसत्रम् आयोजितम्। अस्मिन् वाराणस्याः समीपवर्तिक्षेत्रेभ्यः आगताः वस्त्रनिर्मातारः, निर्यातकाः, एमएसएमई-प्रतिनिधयश्च भारत-यूरोपीयसङ्घयोः मुक्तव्यापारसन्धय:, एचएस-वर्गीकरणे, निर्यातप्रक्रियायां नियामकीयानुपालनेषु च सम्बद्धान् प्रश्नान् विशेषज्ञाणां समक्षम् उपस्थापितवन्तः। विशेषज्ञैः प्रतिभागिनां जिज्ञासानां समाधानं कृत्वा वैश्विकविपणे निर्यातं वर्धयितुं आवश्यकानां पदक्षेपाणां विषये सूचना प्रदत्ता।
Hindusthan Samachar / Divya Ranjan