Enter your Email Address to subscribe to our newsletters

देहरादूनम्, ०२ सेप्टेम्बरमासः (हि.स.)। योगगुरुः बाबा रामदेवः बुधवासरे मुख्यमन्त्रिनिवासे मुख्यमन्त्रिणा पुष्करसिंहधामिना सह शिष्टाचार-साक्षात्कारं कृतवान्। अस्मिन् अवसरे प्रदेशस्य विकासः, योगस्य आयुर्वेदस्य च प्रोत्साहनम्, उत्तराखण्डस्य आध्यात्मिक-सांस्कृतिक-परम्परायाः वैश्विकस्तरे परिचयवर्धनं च इत्यादीनां विविधविषयाणां विषये चर्चा अभवत्।
मुख्यमन्त्री धामी अवदत् यत् उत्तराखण्डस्य परिचयः देवभूमिरूपेण सहैव योगस्य, आयुर्वेदस्य, प्राकृतिकचिकित्सायाश्च भूमिरूपेण अपि अस्ति। राज्यसर्वकारः प्रदेशस्य अस्याः विशिष्टपरिचयस्य वैश्विकस्तरे सुदृढीकरणाय निरन्तरं प्रयत्नशीलः अस्ति।
सः अवदत् यत् योगः आयुर्वेदश्च भारतस्य प्राचीनज्ञानपरम्परायाः महत्त्वपूर्णौ अङ्गौ स्तः। एतयोः माध्यमेन उत्तराखण्डे स्वास्थ्यस्य, पर्यटनस्य, रोजगारस्य, स्वरोजगारस्य च नूतनाः अवसराः विकसितुं शक्यन्ते। प्रदेशे वेलनेस-योग-आयुर्वेदाधारितपर्यटनस्य अपाराः सम्भावनाः सन्ति तथा च सर्वकारः एतेषां क्षेत्राणां प्रोत्साहनाय आवश्यकानि पदानि स्वीकरोति।
बाबा रामदेवः उत्तराखण्डे योगस्य, आयुर्वेदस्य, प्राकृतिकचिकित्सायाश्च क्षेत्रे क्रियमाणानां प्रयासानां प्रशंसां कृतवान्। सः अवदत् यत् उत्तराखण्डस्य प्राकृतिकसम्पदा, हिमालयीयं वातावरणं, समृद्धा च आध्यात्मिकपरम्परा अस्य प्रदेशस्य योगस्य आयुर्वेदस्य च वैश्विककेन्द्ररूपेण विकासाय अनुकूलाः सन्ति।
Hindusthan Samachar / Divya Ranjan