Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, ०२ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्ड-आयुर्वेदविश्वविद्यालयस्य ऋषिकुलपरिसरे ऋषिकुलस्नातक-स्नातकोत्तर-सङ्घटनस्य सौजन्येन बृहद् पौधरोपणाभियानं संचालितम्। कार्य-क्रमस्य मुख्यातिथिः पर्यावरणविद् आयुर्वेदविशेषज्ञश्च डॉ. आशुतोषपन्तः आसीत्। अध्यक्षतां सङ्घटनस्य अध्यक्षः प्रो. बी.के. अग्निहोत्री तथा परिसरनिदेशकः प्रो. ओ.पी. सिंहः अकुरुताम्। अभियानस्य अन्तर्गतं शिक्षकैः, चिकित्सकैः, अधिकारिभिः, कर्मचारिभिः, शोधार्थिभिः स्नातकोत्तर-शोधछात्रैश्च औषधीयाः पर्यावरणोपयोगिनश्च पादपाः रोपिताः।
मुख्यातिथिः डॉ. आशुतोषपन्तः अवदत् यत् वृक्षाः केवलं पर्यावरणस्य आधाराः न, अपि तु स्वस्थजीवनस्य आयुर्वेदस्य च धरोहराः सन्ति। केवलं पादपरोपणं न, अपि तस्य संरक्षणं पालनं च एव वास्तविकं पर्यावरणसेवाकार्यम् अस्ति। प्रो. बी.के. अग्निहोत्री अवदत् यत् ऋषिकुलं भारतीयज्ञानपरम्परायाः प्रकृतेश्च सामञ्जस्यस्य केन्द्रम् अस्ति। यदि प्रत्येकं विद्यार्थी एकस्य पादपस्य दायित्वं स्वीकरोति, तर्हि एतत् जनान्दोलनस्य रूपं धारयितुं शक्नोति। परिसरनिदेशकः प्रो. ओ.पी. सिंहः अवदत् यत् परिसरं हरितम् औषधीयं च कर्तुं पादपारोपणेन सह तेषां संरक्षणेऽपि ध्यानं दीयते।
प्रचारमन्त्री डॉ. अवनीशोपाध्यायः अवदत् यत् एकस्य पादपस्य रोपणं प्रारम्भमात्रम् अस्ति, तं वृक्षरूपेण वर्धयितुं तस्य संरक्षणं च अस्माकं दायित्वम् अस्ति। वृक्षारोपणं भाविवंशानां कृते महत्तमः सामाजिक-निवेशः अस्ति। प्रो. सुरेशचौबे अवदत् यत् औषधीयपादपानां संरक्षणम् आयुर्वेदस्य परम्परायाः संरक्षणम् अस्ति। डॉ. वेदभूषणशर्मा पादपारोपणकार्यक्रमं विद्यार्थिनां व्यावहारिकज्ञानाय आवश्यकम् इति अवदत्। कार्यक्रमे प्रो. विनीतेऽग्निहोत्री, डॉ. भावनामित्तल, डॉ. पारुलशर्मा इत्यादयः अनेके शिक्षकाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan