Enter your Email Address to subscribe to our newsletters

रायपुरम्, ०२ सेप्टेम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् अद्य एकदिवसीयायां छत्तीसगढयात्रायां रायपुरं प्राप्स्यति। निर्धारितकार्यक्रमानुसारं सः प्रातः ९:५५ वादने रायपुरविमानपत्तनं प्राप्स्यति, यत्र राज्यपालः रमेन् डेका, राज्यसर्वकारस्य मन्त्रिमण्डलस्य मन्त्रिणः विधायकाश्च तस्य स्वागतं करिष्यन्ति।
तदनन्तरं उपराष्ट्रपतिः प्रातः १० वादने विमानपत्तनात् प्रस्थाय अखिल-भारतीयायुःविज्ञानसंस्थानम् रायपुरं प्राप्स्यति। तत्र सः एम्स-रायपुरस्य तृतीयदीक्षान्तसमारोहे मुख्यातिथिरूपेण सम्मिलिष्यति। तस्य कार्यक्रमः प्रातः १०:४५ वादनतः मध्याह्न १२:३५ वादनपर्यन्तं एम्स-परिसरे निर्धारितः अस्ति।
समारोहस्य अनन्तरं उपराष्ट्रपतिः एम्स-परिसरात् प्रस्थाय प्रायः १:१५ वादने रायपुरविमानपत्तनं प्राप्स्यति। ततः सः मध्याह्ने १:२५ वादने नवदिल्लीं प्रति प्रस्थास्यति।
Hindusthan Samachar / Divya Ranjan