मुख्यमन्त्री डॉ. यादवः अद्य ग्वालियरनगरे भव्यस्य “बलरामजयन्ती-महोत्सवस्य” उद्घाटनं करिष्यति
ग्वालियरम्, ०२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरनगरे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये अद्य बुधवासरे मेलापकक्षेत्रे प्रदेशस्तरीयस्य भव्यस्य “बलरामजयन्ती-महोत्सवस्य” आयोजनं भविष्यति। प्रदेशसर्वकारेण आचर्यमाणस्य कृषककल्याणवर्षस
मुख्यमंत्री डॉ. यादव 


ग्वालियरम्, ०२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरनगरे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये अद्य बुधवासरे मेलापकक्षेत्रे प्रदेशस्तरीयस्य भव्यस्य “बलरामजयन्ती-महोत्सवस्य” आयोजनं भविष्यति। प्रदेशसर्वकारेण आचर्यमाणस्य कृषककल्याणवर्षस्य उपलक्ष्ये आयोज्यमाने अस्मिन् प्रदेशस्तरीये कार्यक्रमे मुख्यमन्त्री डॉ. यादवः कृषक-क्रेडिट-कार्ड-पटलस्य शुभारम्भं करिष्यति, शून्यप्रतिशतव्याज-योजनायाः सरलीकरणं करिष्यति तथा कृषककवच-योजनायाः शुभारम्भं करिष्यति। सहैव प्रदेशे नवपञ्जीकृतानां द्विशतानां प्राथमिक-कृषि-सहकारी-संस्थानानां कार्यालयानाम् अपि मुख्यमन्त्री शुभारम्भं करिष्यति।

जनसम्पर्काधिकारी हितेन्द्रसिंहभदौरिया सूचनां दत्त्वा अवदत् यत् “बलरामजयन्ती-महोत्सवे” मुख्यमन्त्री डॉ. यादवः पैक्स्-संस्थानानां नूतनसदस्येभ्यः अंशपूँजी-प्रमाणपत्राणि, प्रदेशस्य त्रयाणाम् उत्कृष्ट-जनपद-सहकारी-धनागाराणां तथा पञ्चानाम् उत्कृष्ट-पैक्स-संस्थानानां प्रमाणपत्राणि प्रदास्यति। सहैव उत्कृष्ट-पैक्स-संस्थाभ्यः धनाहरण-पत्राणि अपि वितरिष्यति। सः अवदत् यत् गोसंवर्धनस्य, जैविककृषेः फलोद्यानस्य च क्षेत्रेषु उत्कृष्टं कार्यं कुर्वतां जनपदस्य त्रयाणां कृषकाणां क्रमशः राजमाता विजयाराजे सिन्धिया-पुरस्कारः, कुशाभाऊ ठाकरे-पुरस्कारः तथा मुख्यमन्त्री कृषककल्याण-पुरस्कारश्च मुख्यमन्त्रिणा डॉ. यादवेन प्रदास्यन्ते। आयोजनस्थले विभिन्नविभागैः कृषकहितैषिणां योजनानां कार्यक्रमाणां च विषये केन्द्रिताः प्रदर्शिन्यः अपि स्थापयिष्यन्ते।

“बलरामजयन्ती-महोत्सवे” केन्द्रीय-सञ्चार-पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योति-रादित्यसिन्धिया, विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः, जनपदस्य प्रभारीमन्त्री तुलसीरामसिलावटः, सहकारितामन्त्री विश्वासकैलाशसारङ्गः, सामाजिकन्याय-उद्यानिकीमन्त्री नारायणसिंहकुशवाहः, ऊर्जामन्त्री प्रद्युम्नसिंहतोमरः इत्येतै: च सह प्रदेशसर्वकारस्य अन्ये मन्त्रिणः, राज्यवित्तायोगस्य अध्यक्षः जयभान-सिंहपवैया, ग्वालियरस्य सांसदः भारतसिंहकुशवाहः इत्येतै: च सह अन्ये सांसदाः विधायकाश्च भागं ग्रहीष्यन्ति। तदतिरिक्तम् अपेक्स्-बैङ्कस्य प्रशासकः महेन्द्रसिंहयादवः सहिताः विभिन्नायोगानां प्राधिकरणानां च अध्यक्षाः, उपाध्यक्षाः अन्ये वरिष्ठजनप्रतिनिधयश्च कार्यक्रमे उपस्थिताः भविष्यन्ति। ग्वालियर-चम्बल-अञ्चलस्य बहुसंख्याकाः कृषकाः अपि महोत्सवे सहभागिन: भविष्यन्ति।

बलरामजयन्ती-महोत्सवस्य कार्यक्रमाः मेलापकक्षेत्रे निर्मिते भव्ये मञ्चे प्रातः सार्धदशवादनात् प्रारभ्स्यन्ते। अस्मिन् अवसरे अखिलभारतीय-कविसम्मेलनं, कन्हैय्या-लोकगीतं सहितानि विविधानि सांस्कृतिककार्यक्रमाणां प्रस्तुतयः भविष्यन्ति। मुख्यमन्त्री डॉ. मोहनयादवः महोत्सवे अपराह्णे द्विवादनानन्तरं आगमिष्यति। ततः मुख्यमन्त्री डॉ. यादवः कृषकहितैषिणाम् उपहाराणां शुभारम्भं करिष्यति तथा उत्कृष्टकृषकान् सम्मानयिष्यति। सहैव बलराममहोत्सवे उपस्थितान् कृषकान् सम्बोधयिष्यति।

Hindusthan Samachar / Divya Ranjan