कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन १०८-व्याख्यानमालायाः एकविंशतितमं व्याख्यानं सम्पन्नम्
असम, 02 सितम्बरमासः (हि.स.)। कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषद: संयुक्ततत्त्वावधाने आयोजितस्य १०८-व्याख्यानमालाकार्यक्रमस्य एकविंशतितमं (२१) व्याख्यानं श्रीश्रीमहापुरुषमाधवदेवस्य पावनतिरोभावति
kbvsau-108-व्याख्यान-21


असम, 02 सितम्बरमासः (हि.स.)।

कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषद: संयुक्ततत्त्वावधाने आयोजितस्य १०८-व्याख्यानमालाकार्यक्रमस्य एकविंशतितमं (२१) व्याख्यानं श्रीश्रीमहापुरुषमाधवदेवस्य पावनतिरोभावतिथिमधिकृत्य अत्यन्तं गरिमामयवातावरणे साफल्येन सम्पन्नम्।

कार्यक्रमस्य शुभारम्भः लौकिकमङ्गलाचरणेन सह अभवत्। लौकिकमङ्गलाचरणं सर्वदर्शनविभागस्य प्रतिभावत्या छात्रया सुमी दासः इत्यनया मधुरस्वरेण विधत्तम्। तदनन्तरं सर्वदर्शनविभागस्य अध्यक्षः माननीयः प्रो. रणजीतकुमारतिवारीमहोदयः उपस्थितविदुषाम् अभ्यागतानां च स्वागतं कुर्वन् व्याख्यानस्य मुख्यमुद्देश्यं सविस्तरं स्पष्टीकृतवान्। तत्पश्चात् विभागस्य शोधछात्रा तपस्विनी कुमारी असमस्य भक्तिपरम्परायाः अमूल्यनिधिभूतं सुमधुरं बरगीतं प्रस्तुतवती, येन समस्तं सभागृहं भक्तिरसमयं जातम्।

अस्य व्याख्यानस्य मुख्यविषयः श्रीश्रीमधवदेवस्य जीवनदर्शनम् इति आसीत्। अस्मिन् विषये मुख्यवक्तृरूपेण विश्वहिन्दूमहासंघसमित्याः अध्यक्षः तथा च श्रीदक्षिणपाटगृहाश्रमीसत्रस्य सत्राधिकारः परमपूज्यः श्रीजनार्दनदेवगोस्वामी महोदयः स्वकीयम् ओजस्विविचारगर्भितं वक्तव्यमुपस्थापितवान्। सः महापुरुषमाधवदेवस्य त्यागमयं जीवनम्, तस्य भक्तिदर्शनम् , समाजसंस्कारकाः विचाराः असमीया-साहित्य-संस्कृत्योः तस्य अतुलनीयं योगदानं च सविस्तरं प्रतिपादितवान्।

अस्मिन् गरिमामये कार्यक्रमे विश्वविद्यालयस्य समकुलपतिः आदरणीया आचार्या मल्लिकाकलिता महोदया विशेषरूपेण उपस्थिता भूत्वा कार्यक्रमस्य शोभां वर्धितवती। एतदतिरिक्तं सर्वदर्शनविभागस्य प्राध्यापिका उमामहेश्वरी बी, साहित्यविभागस्य अध्यक्षः प्रो. रातुलबुजरबरुवामहोदयः, दर्शनविभागस्य अध्यक्षः विकासभार्गवशर्मा, ज्योतिषविभागस्य आचार्यः गणेशप्रसादमिश्रः, अन्येषामपि विभागानां विभागाध्यक्षाः, प्राध्यापकाः, शोधच्छात्राः, अध्ययनरताः छात्र-छात्राः च महत्या संख्यायामुपस्थिता आसन्। सम्पूर्णस्य अस्य कार्यक्रमस्य कुशलं सुव्यवस्थितं च सञ्चालनं सर्वदर्शनविभागस्य शोधछात्रेण लिराजकाफ्ले महोदयेन कृतम्।

कार्यक्रमस्य समापने सर्वदर्शनविभागस्य अतिथ्यध्यापिका सुश्री मयूरी बरकाकती महोदया उपस्थितानां सर्वेषां गुरून्, वक्तॄन्, छात्रान् च प्रति कृतज्ञतां प्रकटयन्ती धन्यवादज्ञापनमकरोत्। तदनन्तरं तया एव विश्वकल्याणस्य भावनां धृत्वा मङ्गलमयस्य कल्याणमन्त्रस्य पाठः कृतः, येन सह एव एषः ऐतिहासिकः कार्यक्रमः साफल्येन सम्पन्नः अभवत्।

---------------

Hindusthan Samachar / अंशु गुप्ता