Enter your Email Address to subscribe to our newsletters

मुंबई, 02 सितंबरमासः (हि.स.)।
वरिष्ठस्वतन्त्रतासेनानी सामाजिककार्यकर्ता च नवाशीतिवर्षीयः अन्ना हजारे इत्यस्य स्वास्थ्ये सुधारः भवति। मुम्बईनगरे स्थिते बम्बई चिकित्सालये चिकित्साधीनः अन्ना हजारे चिकित्सकानां परामर्शानुसारं सम्यक् भोजनमपि कुर्वन् अस्ति।
अन्ना हजारे इत्यस्य सहयोगी दत्ता टावरी बुधवासरे अवदत् यत् चिकित्सकैः अन्ना हजारे इत्यस्य परीक्षणं कृत्वा तस्य स्वास्थ्यस्थितौ सुधारः दृष्टः। तथापि पूर्णतया स्वस्थः भवितुं यावत् निरीक्षणाय सः चिकित्सालये द्वौ दिवसौ अधिकं स्थापयिष्यते।
अन्ना हजारे सोमवासरे दक्षिणमुम्बईस्थिते बम्बई चिकित्सालये प्रवेशितः आसीत्। ततः पूर्वं परीक्षाकाले तस्य वृक्के संक्रमणस्य पुष्टि अभवत्। तदनन्तरं तं रालेगणसिद्धितः मुम्बईनगरं नीतम्।
हजारे गतसप्ताहे अहिल्यानगरस्य एकस्मिन् चिकित्सालये प्रवेशितः आसीत्। तत्र चिकित्सोपचारानन्तरं तस्य स्वास्थ्यस्थितौ सुधारः अभवत्, किन्तु वृक्कसंक्रमणं प्रकाशे आगत्यानन्तरं समुचितचिकित्सायै तं मुम्बईनगरस्य बम्बई चिकित्सालयं स्थानान्तरितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani