कुम्भं प्रति यातायातस्य महायोजनां सज्जीकर्तुं प्रशासनं प्रवृत्तम्
हरिद्वारम्, ०२ सेप्टेम्बरमासः (हि.स.)। कुम्भमेला-२०२७ सुरक्षितरूपेण, सुगमतया सुव्यवस्थितरूपेण च सम्पन्नं कर्तुं प्रशासनं यातायातव्यवस्थां प्रति सज्जतां तीव्रयितुं प्रवृत्तम् अस्ति। अस्यैव क्रमे बुधवासरे हरिद्वारस्य सीसीआर-भवने यातायात-नियन्त्रणोपसम
सीसीआर में बैठक लेते एसएसपी नवनीत सिंह


हरिद्वारम्, ०२ सेप्टेम्बरमासः (हि.स.)। कुम्भमेला-२०२७ सुरक्षितरूपेण, सुगमतया सुव्यवस्थितरूपेण च सम्पन्नं कर्तुं प्रशासनं यातायातव्यवस्थां प्रति सज्जतां तीव्रयितुं प्रवृत्तम् अस्ति। अस्यैव क्रमे बुधवासरे हरिद्वारस्य सीसीआर-भवने यातायात-नियन्त्रणोपसमित्याः महत्त्वपूर्णा सभा आयोजिता। सभायाः अध्यक्षतां हरिद्वारस्य वरिष्ठ-आरक्षक-धीक्षकः नवनीतसिंहः अकरोत्। उत्तराखण्डशासनेन गठितायाः यातायात-नियन्त्रणोपसमित्याः अध्यक्षरूपेण सः नियुक्तः अस्ति।

सभायां कुम्भमेलाकाले सम्भावितस्य यातायातभारस्य, श्रद्धालूनां विशालजन-समूहस्य, वाहनानां सञ्चरणस्य तथा जनसमूह-नियन्त्रणसम्बद्धानां चुनौतीनां पूर्वमूल्याङ्कनं कृत्वा प्रभावीरणनीतेः निर्माणविषये चर्चा कृता। प्रत्येकस्य अखाडासदस्यस्य श्रद्धालोः च सुरक्षितयात्रां सुनिश्चितं कर्तुं तथा कुम्भक्षेत्रे यातायातं सुचारुं निर्विघ्नं च स्थापयितुं समितेः मुख्योद्देश्यम् अस्ति।

कुम्भमेलाकाले यातायातव्यवस्थां सुदृढां कर्तुं उत्तराखण्डशासनेन मार्च्-मासे २०२६ तमे वर्षे एसएसपी नवनीतसिंहस्य अध्यक्षतायां यातायात-नियन्त्रणोपसमितिः गठिता आसीत्। समितौ देहरादूनस्य, ऋषिकेशस्य, टिहरीनगरस्य च सम्बन्धिताः अधिकारिणः तथा धर्मशालानां, अखाडानां, आश्रमाणां, टैक्सीसञ्चालकानां, रोडवेज इत्यस्य, मुरादाबाद-रेलविभागस्य, परिवहनविभागस्य इत्येतै: च सहितं विभिन्नविभागानां संस्थानां च अधिकारिणः प्रतिनिधयश्च सदस्याः कृताः सन्ति।

सभायाम् अधिकारिणां विविधहित-धारकाणां च मध्ये उत्तमसमन्वयस्य स्थापनायै विशेषं बलं दत्तम्। समित्या कुम्भमेलाकाले यातायातं सुरक्षितं, सुचारुं सुव्यवस्थितं च स्थापयितुं विस्तृता कार्ययोजना सज्जीकरिष्यते, येन देशविदेशेभ्यः आगच्छद्भ्यः श्रद्धालुभ्यः कस्यापि प्रकारस्य कष्टस्य सम्मुखिन: न कर्तव्यः भवेत्।

पदमार्गेष्वपि विशेषं ध्यानम्

सभायां कुम्भमेलाकाले श्रद्धालूनाम् आवागमनाय प्रस्तावितानां पदमार्गा-णामपि विस्तृता समीक्षा कृता। सम्भावितजनसमूहस्य स्थितिं दृष्ट्वा पदमार्गान् सुरक्षितान् सुव्यवस्थितांश्च कर्तुं तथा जनसमूहं नियन्त्रितुं उपायानां विषये चर्चा अभवत्। श्रद्धालूनां सुरक्षां सुविधां च सर्वोच्चप्राथमिकतां दत्त्वा पदमार्गव्यवस्थां सुदृढां कर्तुं अधिकारिभ्यः निर्देशाः प्रदत्ताः।

एसएसपी नवनीतसिंहेन यातायात-व्यवस्थासम्बद्धैः अधिकारिभिः प्रतिनिधिभिश्च सह सम्भावितसमस्यानां विषये चर्चा कृत्वा उक्तं यत् कुम्भसदृशे विशालधार्मिकायोजने यातायातप्रबन्धनं व्यवस्थासु सर्वाधिकमहत्त्वपूर्णेषु एकतमम् अस्ति। सर्वेषां विभागानां मध्ये उत्तमसमन्वयेन एतादृशी व्यवस्था निर्मातव्या, येन श्रद्धालूनाम् आवागमनं सुगमं भवेत् तथा कस्यापि मार्गस्य अनावश्यकयातायातभारः न भवेत्।

एते अधिकारिणः प्रतिनिधयश्च सहभागिनः अभवन्

सभायां एसडीएम् मञ्जीतसिंहः, ऑटो-विक्रम-अध्यक्षः सत्यनारायणशर्मा, टैक्सीस्थानकस्य कोषाध्यक्षः देवेन्द्रभट्टः, टैक्सीस्थानकस्य अध्यक्षः हरिशसिंहबिष्टः, रोडवेजस्य एसीएम् विशालचन्द्रः, हरिद्वारस्य आरक्षकपङ्क्तेः प्रतिसार-निरीक्षकः प्रवीणआलोकः, कुम्भस्य सीओ वीपीभट्टः, हरिद्वारस्य लोकनिर्माण-विभागस्य अधिशासी-अभियन्ता योगेशकुमारः, नगरकोत-वाली इत्यस्य एसएसआई एचडीभट्टः, हरिद्वारस्य यातायातस्य सीओ विपेन्द्रः, सीपीयू-प्रभारी हितेशकुमारः तथा हरिद्वारस्य यातायातनिरीक्षकः सन्दीपनेगी च उपस्थिताः आसन्। अतिरिक्ततया, अन्तर्जालमाध्यमेन नरेन्द्रनगरस्य एसडीएम् आशीषः तथा ऋषिकेशस्य एसडीएम् कुमकुमजोशी च सभायां सम्बद्धे अभवताम्।

समित्याः आगामीषु सभासु यातायातभार-युक्तानां प्रमुखमार्गाणां, वाहनस्थापन-व्यवस्थायाः, पदमार्गाणां, सार्वजनिक-परिवहनस्य, आपत्कालीनावागमनस्य तथा जनसमूहनियन्त्रणसम्बद्धानां विषयाणां विषये विस्तृतं मन्थनं कृत्वा कुम्भमेला-२०२७ कृते व्यापकयातायात-प्रबन्धनयोजना सज्जीकरिष्यते।

Hindusthan Samachar / Divya Ranjan