Enter your Email Address to subscribe to our newsletters

मंडी, 20 सितंबरमासः (हि.स.)। राधाष्टम्याः पावनावसरे महिलाक्लब् आर्ट् ऑफ् लिविङ्ग् मण्डी इत्यस्य सदस्याः भङ्गरोटूस्थितं वृद्धाश्रमं गत्वा तत्र निवसतां वृद्धानां कुशलक्षेमं पृष्ट्वा तैः सह समयं यापितवन्तः। अस्मिन् अवसरे सदस्यैः भजनानि सत्सङ्गश्च आयोजितः, येन आश्रमस्य वातावरणं भक्तिमयं आनन्दमयं च अभवत्।
महिलाक्लबस्य अध्यक्षा किरणशर्मा अवदत् यत् अस्मिन्नवसरे आश्रमे निवसद्भ्यः वृद्धेभ्यः फलानि मिष्टान्नानि च वितरितानि। सा अवदत् यत् वृद्धैः सह किञ्चित् समयं यापयित्वा तेषां सुखेषु सम्मिलितः भवितुं सर्वेषां कृते सुखदः अनुभवः अभवत्।
महिलाक्लबस्य निदेशिका मायावर्धनः अवदत् यत् महिलाक्लबतर्फे समये समये विविधाः सेवागताः गतिविधयः आयोज्यन्ते। सेवा मानवतायाः प्रति समर्पणं च क्लबस्य प्रमुखं ध्येयम् अस्ति। सा अवदत् यत् वृद्धाश्रमे सर्वैः वृद्धैः सह मिलित्वा अत्यन्तम् आत्मीयः सुखदश्च अनुभवः अभवत्। तैः सह समयं यापयित्वा मनसि सन्तोषः सकारात्मकऊर्जायाश्च अनुभूतिः अभवत्।
अस्मिन्नवसरे महिलाक्लबस्य सदस्यैः वृद्धानां स्वस्थस्य सुखमयस्य प्रसन्नस्य च जीवनस्य कामना कृता तथा भविष्येऽपि एतादृशानि सेवाकार्याणि निरन्तरं कर्तुं सङ्कल्पः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani