असमस्य विरासतः संस्कृतिश्च संरक्षितुं सर्वकारः प्रतिबद्धः - भारतीयजनतादलम्
गुवाहाटी, 20 सितंबरमासः (हि.स.)। असमप्रदेशस्य भारतीयजनतापक्षेण उक्तं यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे राज्यसर्वकारः असमस्य सांस्कृतिकपरिचयस्य संरक्षणाय, ऐतिहासिकविरासतस्य रक्षणाय तथा राज्यस्य समग्रविकासाय च प्रतिबद्धः अस्ति। भा
असम भाजपा Assam BJP


गुवाहाटी, 20 सितंबरमासः (हि.स.)।

असमप्रदेशस्य भारतीयजनतापक्षेण उक्तं यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे राज्यसर्वकारः असमस्य सांस्कृतिकपरिचयस्य संरक्षणाय, ऐतिहासिकविरासतस्य रक्षणाय तथा राज्यस्य समग्रविकासाय च प्रतिबद्धः अस्ति।

भारतीयजनतापक्षस्य असमप्रदेशस्य माध्यमपटलसदस्यः अमलनारायणपटवारी रविवासरे निर्गते वक्तव्ये अवदत् यत् मुख्यमन्त्रिणा शनिवासरे ऐतिहासिकगौरीपुरस्य तथा कूचबिहारस्थितस्य पवित्रस्य मधुपुरसत्रस्य च कृतस्य भ्रमणस्य सः स्वागतं करोति। तेन उक्तं यत् मुख्यमन्त्रिणः भ्रमणावसरे विरासत्संरक्षणसम्बद्धाः अनेकाः महत्त्वपूर्णाः निर्णयाः गृहीताः।

पटवारिणा उक्तं यत् मुख्यमन्त्रिणा गौरीपुरे गदाधरनद्याः तीरे स्थितस्य ऐतिहासिकस्य हवाखानस्य पुनर्निर्माणस्य संरक्षणस्य च प्रगतिः स्थले एव समीक्षिता। तेन उक्तं यत् प्रसिद्धसांस्कृतिकव्यक्तित्वैः प्रमथेशचन्द्रबरुवा, डॉ. भूपेनहजारिका तथा पद्मश्रीप्रतिमाबरुवापाण्डे इत्येतैः सम्बद्धायाः अस्याः ऐतिहासिकविरासतायाः प्राचीनं स्थापत्यस्वरूपं संरक्ष्य आधुनिकप्रौद्योगिक्याः माध्यमेन पुनर्निर्माणस्य निर्णयः प्रशंसनीयः अस्ति।

तेन उक्तं यत् प्रतिमाबरुवापाण्डेयाः स्मृतौ अत्र एकं सङ्ग्रहालयमपि निर्मास्यते तथा आगामीएकवर्षस्य अन्तः हवाखानम् असमस्य प्रमुखेषु सामाजिकसांस्कृतिकेषु आकर्षणकेन्द्रेषु विकसितुं लक्ष्यं निर्धारितम् अस्ति।

अमलनारायणपटवारी अवदत् यत् धुबरीजनपदस्य एकशताधिकाष्टवर्षप्राचीनस्य ऐतिहासिकस्य तामरहाटसामुदायिकदुर्गामन्दिरस्य नवनिर्मितं भवनं शारदीयदुर्गोत्सवात् पूर्वं श्रद्धालुभ्यः समर्प्य मुख्यमन्त्रिणा क्षेत्रस्य आध्यात्मिकपरम्परायाः श्रद्धायाश्च सम्मानः कृतः।

मधुपुरसत्रस्य विकासस्य उल्लेखं कुर्वन् सः अवदत् यत् असमसर्वकारः बटद्रवापरियोजनायाः अनुसारेण कूचबिहारस्थितं पवित्रं मधुपुरसत्रम् एकं विशिष्टम् आध्यात्मिकं सांस्कृतिकं च केन्द्ररूपेण विकसितुं कार्यं करोति। तस्य अनुसारम् असमसर्वकारेण अस्य कृते पूर्वमेव पञ्चत्रिंशत्कोटिरूप्यकाणि निर्धारितानि सन्ति, पश्चिमबङ्गसर्वकारेण च त्रिंशत्कोटिरूप्यकाणां अनुदानं दातुं सहमतिः प्रदर्शिता अस्ति।

अमलनारायणपटवारी अवदत् यत् उभयोः समीपस्थराज्ययोः मध्ये एतेन समन्वयेन मधुपुरसत्रं पूर्वोत्तरभारते सम्पूर्णे च देशे प्रमुखेषु आध्यात्मिकपर्यटनस्थलेषु विकसितुं साहाय्यं भविष्यति।

सः अवदत् यत् डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे भारतीयजनतापक्षस्य सर्वकारः केवलं आधारभूतसंरचनायाः विकासे एव न, अपि तु पूर्वजानाम् अमूल्यस्मृतीनां ऐतिहासिकविरासतायाश्च संरक्षणं कृत्वा भाविसंततीनां कृते ताः जीविताः स्थापयितुं निरन्तरं कार्यं करोति।

-----------

Hindusthan Samachar / Dheeraj Maithani