प्रदेशस्य त्रिषु प्रमुखकेन्द्रेषु प्रशिक्षणार्थिनः मधुमक्षिकापालनस्य प्रशिक्षणं प्राप्नुवन्ति
लखनऊ, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारेण कृषकान् युवजनान् च स्वजीविकया संयोजयितुं तेषाम् आयवर्धनाय च मधुमक्षिकापालनं निरन्तरं प्रोत्साह्यते। अस्यैव क्रमस्य अन्तर्गतं प्रदेशस्य बस्ती औद्यानिकप्रयोगप्रशिक्षणकेन्द्रे पञ्चदश, सहारनपुर औद्यानिकप
उत्तर प्रदेश सरकार


लखनऊ, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारेण कृषकान् युवजनान् च स्वजीविकया संयोजयितुं तेषाम् आयवर्धनाय च मधुमक्षिकापालनं निरन्तरं प्रोत्साह्यते। अस्यैव क्रमस्य अन्तर्गतं प्रदेशस्य बस्ती औद्यानिकप्रयोगप्रशिक्षणकेन्द्रे पञ्चदश, सहारनपुर औद्यानिकप्रयोगप्रशिक्षणकेन्द्रे नवविंशतिः तथा राजकीयमौनपालनप्रशिक्षणकेन्द्रे प्रयागराजे द्वात्रिंशत् प्रशिक्षणार्थिभिः सह कुलं षट्सप्ततिः अभ्यर्थिभ्यः नवतिदिवसीयं मौनपालनप्रशिक्षणं प्रदीयते। एतत् प्रशिक्षणं दिसम्बरमासस्य पञ्चदशदिनाङ्कपर्यन्तं भविष्यति। प्रशिक्षणेन ते आधुनिकप्रविधिभिः दक्षाः भूत्वा सफलाः उद्यमिनः भवितुं शक्नुवन्ति।

उद्याननिदेशकः भानुप्रकाशरामः अवदत् यत् विभागेन सञ्चालितस्य मधुमक्षिकापालनकार्यक्रमस्य अन्तर्गतं लाभार्थिनः आत्मनिर्भरान् कर्तुं इकाईव्ययस्य चत्वारिंशत्प्रतिशतपर्यन्तम् अनुदानं प्रदीयते। अस्याः योजनायाः अन्तर्गतं प्रत्येकं लाभार्थिनं पञ्चाशत् मौनवंशानां अर्थात् मधुमक्षिकाकोलिकानां तथा मधुमक्षिकागृहाणां पेटिकानां च एकं पूर्णम् एककं स्थापयितुं सुविधा प्रदीयते। अस्मिन् मधुनिष्कर्षणाय परिरक्षणाय च आवश्यकाः सर्वे सहायकसाधनसामग्र्यः अपि समाविष्टाः सन्ति।

Hindusthan Samachar / Dheeraj Maithani