थाईलैण्डदेशस्य २८-सदस्यीयेन प्रतिनिधिमण्डलेन महाबोधिमन्दिरस्य दर्शनं कृतम्, बिहारस्य बौद्धपरम्परया अभिभूताः
पाटलिपुत्रम्, २० सेप्टेम्बरमासः (हि.स.)। बिहारपर्यटनविभागेन आयोजितस्य ‘फैम टूर ऑफ लोटस ट्रायंगल-ट्रैवल टू लैंड ऑफ एनलाइटेनमेंट’ इत्यस्य अन्तर्गतं थाईलैण्डदेशात् आगतैः २८-सदस्यीयेन प्रतिनिधिमण्डलेन रविवासरे बोधगया-स्थितस्य विश्वप्रसिद्धस्य महाबोधि-म
बिहार के महाबोधि मंदिर के दर्शन काे पहुंचे थाईलैंड के 28 सदस्यीय प्रतिनिधिमंडल


बिहार के महाबोधि मंदिर के दर्शन काे पहुंचे थाईलैंड के 28 सदस्यीय प्रतिनिधिमंडल


पाटलिपुत्रम्, २० सेप्टेम्बरमासः (हि.स.)। बिहारपर्यटनविभागेन आयोजितस्य ‘फैम टूर ऑफ लोटस ट्रायंगल-ट्रैवल टू लैंड ऑफ एनलाइटेनमेंट’ इत्यस्य अन्तर्गतं थाईलैण्डदेशात् आगतैः २८-सदस्यीयेन प्रतिनिधिमण्डलेन रविवासरे बोधगया-स्थितस्य विश्वप्रसिद्धस्य महाबोधि-मन्दिरस्य दर्शनं कृतम्। पवित्रस्य बौद्धपरिपथस्य यात्रार्थम् आगताः प्रतिनिधिमण्डलस्य सदस्याः महाबोधि-मन्दिरे प्रार्थनां कृत्वा भगवत: बुद्धस्य ज्ञानस्थल्याः आध्यात्मिकमनुभवं प्राप्तवन्तः।

यूनेस्को-संस्थायाः विश्वधरोहरसूच्यां समाविष्टं महाबोधिमन्दिरं बौद्धधर्माव-लम्बिनां प्रमुखं तीर्थस्थलं आध्यात्मिक-केन्द्रं च अस्ति। थाईलैण्डस्य प्रतिनिधिमण्डलेन तस्मिन् पवित्रस्थले श्रद्धा प्रकटिता, यत्र मान्यतानुसारं भगवान् बुद्धः बोधिवृक्षस्य अधः ज्ञानं प्राप्तवान् आसीत्। मन्दिरपरिसरस्य शान्तिः, करुणा आध्यात्मिकं वातावरणं च थाई-अतिथीन् विशेषरूपेण प्रभावितवन्तः।

विशेषसचिवः पर्यटननिदेशकश्च उदयन-मिश्रः अवदत् यत् बिहारसर्वकारः राज्यस्य बौद्धपरिपथसम्बद्धस्थलानां विकासे, प्रचारप्रसारे, अन्ताराष्ट्रिय-पर्यटकेभ्यः उत्तमसुविधानां प्रदाने च विशेषं ध्यानं ददाति। सः अवदत् यत् थाईप्रतिनिधि-मण्डलस्य एषः प्रवासः बिहारस्य बौद्धपरम्परायाः वैश्विकस्तरे प्रचाराय भारत-थाईलैण्डयोः मध्ये पर्यटनस्य सांस्कृतिकसम्बन्धानां च अधिकसुदृढी-करणाय सहायकः भविष्यति।

प्रतिनिधिमण्डलस्य सदस्याः बोधगयायाः यात्राम् अविस्मरणीयम् अनुभवं कथितवन्तः। ते अवदन् यत् भगवान् बुद्धस्य ज्ञानस्थल्यां प्राप्तुं तेषां कृते आध्यात्मिकदृष्ट्या भावनात्मकदृष्ट्या च महत्त्वपूर्णः क्षणः आसीत्। अस्मिन् क्रमे प्रतिनिधिमण्डलेन बोधगयायाः डुङ्गरेश्वरी-पर्वतस्य, सुजातामन्दिरस्य सुजातास्तूपस्य च भ्रमणमपि कृतम्। तदतिरिक्तं थाईमन्दिरस्य, भारतीय-पुरातत्त्वसर्वेक्षण-सङ्ग्रहालयस्य तथा ८०-पादोन्नतायाः बुद्धप्रतिमायाः च अवलोकनं कृतम्।

यात्रायाः अवधौ थाई-अतिथिभ्यः बिहारस्य समृद्धायाः ऐतिहासिकपरम्परायाः, स्थानीयसंस्कृतेः आतिथ्यस्य च परिचयः अपि प्रदीयते। पर्यटनविभागेन सज्जी-कृतस्य कार्यक्रमस्य उद्देश्यं अन्ताराष्ट्रियपर्यटकान् राज्यस्य बौद्ध-ऐतिहासिक-सांस्कृतिकस्थलैः परिचितान् कारयितुम् अस्ति।

बोधगयातः प्रारब्धा प्रतिनिधिमण्डलस्य यात्रा राजगीरं, नालन्दां, वैशालीं पाटलिपुत्रं च यावत् भविष्यति। २१ सेप्टेम्बरे प्रतिनिधिमण्डलं गेहलौरस्थं दशरथ-माञ्झीस्मारकं, राजगीर-प्रकृतिसफारीं काचसेतुम् च द्रक्ष्यति। ततः नालन्दा-स्थितस्य विश्वधरोहरस्थलस्य प्राचीन-नालन्दामहाविहारस्य तथा राजगीरस्य विश्वशान्तिस्तूपस्य, वेणुवनस्य अन्येषां प्रमुखस्थलानां च अवलोकनं प्रस्तावितम् अस्ति।

यात्रायाः अग्रिमचरणे प्रतिनिधिमण्डलं वैशाल्यां अवशेषस्तूपस्य, विश्वशान्ति-स्तूपस्य तथा कोल्हुआस्थितस्य अशोक-स्तम्भस्य च भ्रमणं करिष्यति। यात्रायाः अन्तिमचरणे पाटलिपुत्रे स्थानीयपर्यटन-हितधारकैः सह सभा आयोजयिष्यते। पर्यटनविभागानुसारम् एषा यात्रा भारत-थाईलैण्डदेशयोः मध्ये साझां बौद्धधरोहरं तथा शताब्देभ्यः प्रचलितान् आध्यात्मिकान् सांस्कृतिकान् च सम्बन्धान् अधिकं सुदृढीकर्तुं दिशि महत्त्वपूर्ण: प्रयत्न: अस्ति।

Hindusthan Samachar / Divya Ranjan