Enter your Email Address to subscribe to our newsletters

लखनऊम्, २० सितम्बरमासः। उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह रविवासरे राष्ट्रियलोकदलस्य उत्तरप्रदेशस्य प्रदेशाध्यक्षः ऐश्वर्यराजसिंहः शिष्टाचारमेलनं कृतवान्।
अस्मिन्नवसरे उभयोः नेतृणोः मध्ये प्रदेशसम्बद्धेषु विविधेषु सामाजिकेषु, आर्थिकेषु, राजनैतिकेषु च विषयेषु तथा कृषकाणां, श्रमिकाणां, महिलासशक्तीकरणस्य युवजनसम्बद्धानां च महत्त्वपूर्णविषयाणां विषये सार्थकः सकारात्मकश्च संवादः अभवत्।
वार्तायां प्रदेशस्य कृषकाणां श्रमिकाणां च हितसम्बद्धेषु विषयेषु, ग्रामीणार्थव्यवस्थायाः सुदृढीकरणे, युवभ्यः रोजगारस्य कौशलविकासस्य च अवसरानां वर्धने, महिलानां सामाजिकरूपेण आर्थिकरूपेण च सशक्तीकरणे तथा प्रदेशस्य समग्रविकाससम्बद्धेषु विषयेषु विचारविमर्शः कृतः।
ऐश्वर्यराजसिंहः अवदत् यत् राष्ट्रीयलोकदलः चौधरीचरणसिंहस्य विचारधारया प्रेरितः सन् कृषकाणां, श्रमिकाणां, युवजनानां, महिलानां तथा समाजस्य सर्वेषां वर्गाणां हिताय सम्मानाय च प्रतिबद्धः अस्ति। प्रदेशस्य प्रगतेः समृद्धेश्च कृते सर्वेषां वर्गाणां सक्रियसहभागिता आवश्यकी अस्ति।
मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह एषा संगोष्ठी सौहार्दपूर्णे सकारात्मकवातावरणे सम्पन्ना। अस्मिन् अवसरे प्रदेशस्य विकासेन जनहितेन च सम्बद्धेषु विषयेषु निरन्तरसंवादस्य सहकारभावनायाश्च विषयेऽपि चर्चा अभवत्।
Hindusthan Samachar / Dheeraj Maithani