Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० सेप्टेम्बरमासः (हि.स.)। ‘स्वच्छता हि सेवा’ अभियानस्य अन्तर्गतम् उत्तररेलविभागस्य दिल्लीमण्डलेन १७ सेप्टेम्बरतः २ अक्टोबरपर्यन्तं विविधाः स्वच्छतागतिविधयः जनसहभागिता-कार्यक्रमाश्च आयोज्यन्ते। अभियानस्य समापनं २ अक्टोबरमासे ‘स्वच्छभारते’ दिवसस्य रूपेण भविष्यति। अस्मिन् वर्षे अभियानस्य विषयः “स्वच्छतायां सहभागिता; स्वच्छभारतं विकसितभारतं च” इति निर्धारितः अस्ति।
उत्तररेलविभागस्य मुख्यजनसम्पर्का-धिकारी हिमांशुशेखर उपाध्यायः अवदत् यत् ‘स्वच्छता हि सेवा’ राष्ट्रव्यापी अभियानम् अस्ति, यस्य उद्देश्यम् सक्रियसहभागितया सामूहिक-दायित्वेन च स्वच्छतायाः संस्कृतिं सुदृढां कर्तुम् अस्ति। अभियाने सार्वजनिकस्थानानां स्वच्छता, अपशिष्टप्रबन्धनम्, युवानां सहभागिता, स्वच्छताकर्मचारिणां गरिमा सुरक्षा च तथा व्यापकजनसहभागिता इत्येतेषु विषयेषु विशेषं बलं दीयते।
अभियानस्य अन्तर्गतं विद्यार्थिषु स्वच्छतायाः विषये जागरूकतां वर्धयितुं विभिन्नेषु विद्यालयेषु चित्रकला-प्रतियोगितानां भाषणप्रतियोगितानां च आयोजनं कृतम्। अपरतः रेलस्थानकेषु यात्रिकान् स्वच्छतां संरक्षितुं जागरूकान् कर्तुं दिल्ली-जङ्क्शन्, नवदेहली-रेलस्थानके तथा आनन्दविहार-टर्मिनल इत्यत्र वीथीनाटकानाम् आयोजनं कृतम्। तदतिरिक्तं रेलस्थानकेषु स्वच्छतामानकेषु सुधारं कर्तुं गहनस्वच्छताभियानान्यपि सञ्चाल्यन्ते।
Hindusthan Samachar / Divya Ranjan