मध्यप्रदेशे उद्यानिकीमूल्यशृङ्खलायाः सुदृढीकरणाय सोमवासरे मन्थनम्, उत्पादनात् वैश्विकविपण्यपर्यन्तं रणनीतिः निर्मीयते
भोपालम्, २० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशराज्यनीतिआयोगेन उद्यानिकी-खाद्यप्रसंस्करणविभागस्य सहयोगेन सोमवासरे, २१ सेप्टेम्बरमासे, राजधान्यां भोपालनगरे “मध्यप्रदेशे उद्यानिकीमूल्य-शृङ्खलानां सुदृढीकरणम्” इति विषये नीतिसंवादः आयोजयिष्यते। अस्मिन्
उद्यानिकी प्रतीकात्मक फोटो


भोपालम्, २० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशराज्यनीतिआयोगेन उद्यानिकी-खाद्यप्रसंस्करणविभागस्य सहयोगेन सोमवासरे, २१ सेप्टेम्बरमासे, राजधान्यां भोपालनगरे “मध्यप्रदेशे उद्यानिकीमूल्य-शृङ्खलानां सुदृढीकरणम्” इति विषये नीतिसंवादः आयोजयिष्यते।

अस्मिन् नीति-निर्मातृभिः, विषयविशेषज्ञैः, वित्तीयसंस्थानां प्रतिनिधिभिः, उद्योग-प्रतिनिधिभिः, कृषक-उत्पादकसङ्गठनानां प्रतिनिधिभिः, स्वयंसेवीसंस्थानां प्रति-निधिभिश्च उद्यानिकीक्षेत्रस्य समग्र-विकासविषये विचारविमर्शः क्रियते। संवादे राष्ट्रस्तरीयाः संस्थाः निर्माण्य: च अपि सहभागं करिष्यन्ति।

जनसम्पर्काधिकारी अनिलवशिष्ठः रविवासरे अवदत् यत् संवादकार्यक्रमः प्रातः १० वादनात् एमपीटी-होटल-पलाश-रेसीडेन्सी इत्यस्य प्रथमस्तरस्थिते विमर्शसभागृहे भविष्यति। कार्यक्रमे मध्यप्रदेशराज्यनीतिआयोगस्य मुख्य-कार्यपालनाधिकारी स्वरोचिष् सोमवंशी स्वागतभाषणं करिष्यति। योजना-आर्थिक-सांख्यिकीविभागस्य सचिवः श्रीमनशुक्लः प्रारम्भिकभाषणं करिष्यति। अटल-बिहारी-वाजपेयी-सुशासन-नीतिविश्लेषणसंस्थानस्य उपाध्यक्षः प्रो. राजीवदीक्षितः तथा कृषि-उत्पादनायुक्तः उद्यानिकी-खाद्यप्रसंस्करण-विभागस्य अपरमुख्यसचिवश्च के.सी. गुप्तः विशेषसम्बोधनं करिष्यतः।

सः अवदत् यत् उद्यानिकी-खाद्य-प्रसंस्करणायुक्तः सौरभकुमारसुमनः “मध्यप्रदेशस्य उद्यानिकी-२०२६ : जनपदवर्गीकरणम्, कमोडिटी-क्लस्टरः मूल्यशृङ्खलायाः च न्यूनताः” इति विषये प्रस्तुतीकरणं करिष्यति। सुशासन-नीतिविश्लेषणसंस्थानस्य परामर्शदाता आमिरमननदेवः उत्पादनात् समृद्धिपर्यन्तं प्रतिस्पर्धात्मकानां उद्यानिकीमूल्य-शृङ्खलानां निर्माणविषये तथा एपीडा-संस्थायाः क्षेत्रीयप्रमुखः निशान्तबंसोड़ः मूल्यसंवर्धनस्य, प्रसंस्करणस्य, ब्राण्डनिर्माणस्य तथा वैश्विकविपण्यपर्यन्तं प्रापणस्य विषये प्रस्तुतीकरणं करिष्यति।

नीतिसंवादे तिस्र: पैनल-परिचर्चाः भविष्यन्ति। प्रथमायां परिचर्चायां मध्यप्रदेशस्य उद्यानिकीमूल्यशृङ्खलानां सम्भावनानां विषये, द्वितीयायाम् आधुनिककृष्यर्थं वित्तीयसंसाधनानां, योजनानाम् अभिसरणस्य, प्रौद्योगिक्याः निजी-निवेशस्य च विषये तथा तृतीयायां प्रसंस्करणेन, मूल्यसंवर्धनेन विपण्य-सम्बद्धतया च उद्यानिकीविकासं गतिं दातुं विषये मन्थनं भविष्यति।

जनसम्पर्काधिकारी अवदत् यत् परिचर्चासु एपीडा, राष्ट्रिय-उद्यानिकी-मण्डलम्, एमपीआईडीसी, नाबार्ड, सेन्ट्रल्-बैङ्क्, डब्ल्यूआरआई-इण्डिया, पार्ले-एग्रो, डाबर, जैन-इरिगेशन, कृषिप्रौद्योगिकीसंस्थानां, महिला-कृषक-उत्पादकनिर्माणीनां तथा विभिन्नानां स्वयंसेवीसङ्गठनानां प्रतिनिधयः भागं ग्रहीष्यन्ति। मुक्त-परिचर्चायां भारतीयकृष्यनुसन्धान-परिषदः, केन्द्रीयकृषि-अभियांत्रिकी-संस्थानस्य, मौलानाआजादराष्ट्रिय-प्रौद्योगिकीसंस्थानस्य, सूक्ष्म-लघु-मध्यम-उद्यमविभागस्य तथा उद्यानिकी-खाद्यप्रसंस्करणविभागस्य प्रतिनिधयः स्वविचारान् प्रस्तोष्यन्ति।

कार्यक्रमस्य समापनावसरे राज्यनीति-आयोगस्य परामर्शदात्री डॉ. आकाङ्क्षा चन्द् भाविकार्ययोजनां प्रस्तुतं करिष्यति। आयोगस्य प्रशासनिकाधिकारिणी पूर्णिमा शर्मा धन्यवादज्ञापनं करिष्यति।

Hindusthan Samachar / Divya Ranjan