आकाशे प्रतिध्वनिता भारत-जापानयोः मैत्री, तैजसे सहैव उड्डयितवन्तौ द्वौ वायुसेनाप्रमुखौ
जोधपुरम्, २० सेप्टेम्बरमासः (हि.स.)। जोधपुरस्य वायुसेनास्थलात् रविवासरे भारत-जापानयोः सुदृढमानस्य रक्षा-सम्बन्धस्य स्मरणीयं चित्रं समुपस्थापितम्। भारत-जापानयोः मध्ये प्रचलितस्य संयुक्तसैन्याभ्यासस्य ‘वीर गार्जियन-२०२६’ इत्यस्य अवधौ उभयोः देशयोः वाय
संयुक्त सैन्य अभ्यास


जोधपुरम्, २० सेप्टेम्बरमासः (हि.स.)। जोधपुरस्य वायुसेनास्थलात् रविवासरे भारत-जापानयोः सुदृढमानस्य रक्षा-सम्बन्धस्य स्मरणीयं चित्रं समुपस्थापितम्। भारत-जापानयोः मध्ये प्रचलितस्य संयुक्तसैन्याभ्यासस्य ‘वीर गार्जियन-२०२६’ इत्यस्य अवधौ उभयोः देशयोः वायुसेनाप्रमुखौ स्वदेशे निर्मिते तैजस-युद्धविमाने सहैव उड्डयनं कृत्वा आकाशे स्वसहभागितानवाध्यायं लिखितवन्तौ।

भारतीयवायुसेनाध्यक्षः एयर चीफ मार्शल एपी सिंहः एकाकिना उड्डयनेन तैजस-विमानानां व्यूहस्य नेतृत्वं कृतवान्। जापानस्य वायुस्वसंरक्षणबलस्य प्रमुखः चीफ ऑफ स्टाफ जनरल मोरिता ताकेहिरोः ग्रुप्-कैप्टन् आई. सम्राट् इत्यनेन सह सहचालकरूपेण तैजस-विमाने उड्डयितवान्। उड्डयनात् पूर्वं द्वौ वायुसेनाप्रमुखौ परस्परं अभिवादनं कृत्वा स्व-स्वविमाने प्रति अगच्छताम्। उड्डयनकाले जनरल मोरितायै भारतीय-तेजसस्य आधुनिकानां प्रणालीनां परिचालनक्षमतानां च अनुभवः प्राप्तः।

उभे विमाने वायुसेनास्थलस्य उपरि व्यूहबद्धरूपेण उड्डीय प्रदक्षिणां कृत्वा निर्धारितप्रक्रियानुसारं सुरक्षितरूपेण अवतीर्णे। अवतरणात् पूर्वं विमाने व्यूहात् पृथक् भूत्वा स्व-स्वस्थानं गृहीतवन्ते। जनरल मोरिताः तैजस-विमाने उड्डयनस्य अनुभवः अद्भुतः इति वर्णयन् तम् भारतस्य प्रौद्योगिकीनवाचारस्य प्रतीकम् इति कथितवान्। एयर चीफ मार्शल एपी सिंहः संयुक्तसैन्याभ्यासं द्वयोः वायुसेनयोः मध्ये विश्वासवर्धनस्य, अनुभवविनिमयस्य, परस्परशिक्षणस्य च महत्त्वपूर्णं माध्यमम् इति कथितवान्।

भारत-जापानयोः मध्ये ‘एक्स वीर गार्जियन’ इत्यस्य द्वितीयः संस्करणः जोधपुरे ९ सेप्टेम्बरतः प्रचलति तथा २२ सेप्टेम्बरपर्यन्तं भविष्यति। अभ्यासे जापानस्य त्सुइकी-वायुसेनास्थलात् आगतैः एफ-२ युद्धविमानैः सहभागिता कृता अस्ति। भारतीयवायुसेनायाः पक्षतः सुखोई-३० एमकेआई, तैजस तथा राफेल इत्यादीनि अग्रपङ्क्तीयुद्धविमानानि अभ्यासे सम्मिलितानि सन्ति।

अभ्यासस्य अवधौ उभयोः देशयोः विमानचालकाः विविधजटिलयुद्धाभि-यानानां प्रशिक्षणं प्राप्नुवन्ति तथा च स्वकीयान् परिचालनानुभवान् परस्परं विभजन्ति। उभौ वायुसेनाप्रमुखौ भविष्ये संयुक्त-प्रशिक्षणस्य, परिचालनरणनीतेः, विशेषज्ञतायाः च आदान-प्रदानस्य विषये अपि बलं दत्तवन्तौ। एयर चीफ मार्शल एपी सिंहः अवदत् यत् जापानीययुद्धविमानानां प्रथमवारं भारतीयभूमेः संचालनं भारत-जापानयोः रक्षासहभागिताया: इतिहासे महत्त्वपूर्णा उपलब्धिः अस्ति। सः अवदत् यत् सह उड्डयनेन, प्रशिक्षणप्राप्त्या अभ्यासेन च उभयोः देशयोः वायुसेनाभ्यां परस्परं कार्यप्रणालीं ज्ञातुं स्वकीयक्षमतानां च वर्धनस्य अवसरः प्राप्यते।

सः ‘तरङ्गशक्ति-२०२४’ इत्यस्य अपि उल्लेखं कृत्वा अवदत् यत् तस्मिन् समये प्रतिकूलवायुमौसमस्य कारणेन जापानीयविमानानि भारतं प्राप्तुं न शक्नुवन्। अस्मिन् समये तु तस्य न्यूनतायाः पूर्तिं कुर्वन्तः जापानीययुद्ध-विमानानि जोधपुरात् अभ्यासे भागं गृहीतवन्तः। एयर चीफ मार्शल एपी सिंहः वैश्विकापूर्तिशृङ्खलया सम्बद्धानां समस्यानां कारणात् केषाञ्चन विमानानां आपूर्तिः प्रभाविता इति अपि अवदत्। सः अवदत् यत् तैजस-मार्क्-२ तथा भारतस्य पञ्चमपीढीयुद्धविमानस्य एडवांस्ड मीडियम कॉम्बैट एयरक्राफ्ट इत्यादयः कार्यक्रमाः भारतीयरक्षाविमाननस्य अनुसन्धान-विकासयोः च नूतनां दिशां प्रदातुं महत्त्वपूर्णाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan