महासमुन्दे २४ सितम्बर दिनाङ्के जिलास्तरीयः रोजगारमेला, २३० पदेषु भविष्यति नियुक्तिः
महासमुंदम्, 20 सितंबरमासः (हि.स.)। जिलारोजगारस्वरोजगारमार्गदर्शनकेन्द्रस्य महासमुन्दद्वारा २४ सितम्बर दिनाङ्के जिलास्तरीयस्य रोजगारमेलस्य आयोजनं करिष्यते। रोजगारमेला प्रातः ११ वादनतः अपराह्णे ३ वादनपर्यन्तं लाइवलीहुड् महाविद्यालयस्य द्वितीयतले, पॉल
रोजगार मेला फाइल फाेटाे


महासमुंदम्, 20 सितंबरमासः (हि.स.)। जिलारोजगारस्वरोजगारमार्गदर्शनकेन्द्रस्य महासमुन्दद्वारा २४ सितम्बर दिनाङ्के जिलास्तरीयस्य रोजगारमेलस्य आयोजनं करिष्यते। रोजगारमेला प्रातः ११ वादनतः अपराह्णे ३ वादनपर्यन्तं लाइवलीहुड् महाविद्यालयस्य द्वितीयतले, पॉलिटेक्निक् महाविद्यालयपरिसरे, बरोडाबाजारग्रामे आयोजितः भविष्यति। मेलस्य माध्यमेन निजीक्षेत्रस्य विभिन्नाः कम्पन्यः कुलं २३० रिक्तपदेषु अभ्यर्थिनः नियोजयिष्यन्ति।

जिलारोजगारकार्यालयस्य उपसञ्चालिका डॉ. शशिकला अतुलकर् रविवासरे अवदत् यत् रोजगारमेले स्वतन्त्र माइक्रोफिन प्राइवेट लिमिटेड्, पुष्कल एग्रोटेक लिमिटेड्, अलर्ट एसजीएस प्राइवेट लिमिटेड्, रजत इक्विपमेण्ट्स प्राइवेट लिमिटेड् तथा श्रमिन टैलेण्ट प्राइवेट लिमिटेड् इत्यादीनि विभिन्नानि निजीप्रतिष्ठानानि भागं ग्रहीष्यन्ति। एताभिः कम्पनीभिः २३० पदेषु योग्याभ्यर्थिनां चयनं करिष्यते।

सा अवदत् यत् नियुक्त्यर्थं दशमकक्षोत्तीर्णाः, द्वादशकक्षोत्तीर्णाः, बीएससी एग्रीकल्चर् उपाधिधराः, स्नातकाः तथा आईटीआई उत्तीर्णाः अभ्यर्थिनः पात्राः भविष्यन्ति। इच्छुकाः अभ्यर्थिनः निर्धारिते दिनाङ्के निर्धारितसमये च स्वशैक्षणिकप्रमाणपत्रैः, रोजगारपञ्जीकरणप्रमाणपत्रेण, आधारपत्रेण, जीववृत्तस्य छायाप्रतिना तथा पासपोर्टप्रमाणाकारैः छायाचित्रैः सह रोजगारमेले उपस्थिताः भूत्वा साक्षात्कारे भागं ग्रहीतुं शक्नुवन्ति।

डॉ. अतुलकर् अवदत् यत् साक्षात्कारप्रक्रियायां भागं ग्रहीतुं अभ्यर्थिभिः छत्तीसगढ़ रोजगार एप् अथवा रोजगारविभागस्य जालपुटस्य माध्यमेन ऑनलाइन आवेदनं करणम् अनिवार्यं भविष्यति। रिक्तपदानां संख्या, पदानुसारं शैक्षणिकयोग्यता, वेतनमानं तथा कार्यस्थलसम्बन्धिनी विस्तृता सूचना जिलारोजगारस्वरोजगारमार्गदर्शनकेन्द्रात्, महासमुन्दतः प्राप्तुं शक्यते। अभ्यर्थिनः रोजगारविभागस्य जालपुटेऽपि आवश्यकां सूचनां प्राप्तुं शक्नुवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani