Enter your Email Address to subscribe to our newsletters

जयपुरम्, 20 सितंबरमासः (हि.स.)।
लोकमन्थन २०२६ अन्तर्गतं ‘लोकमन्थनयात्रा जयपुरमहानगरम्’ इति कार्यक्रमः सोमवासरे, सितम्बरमासस्य एकविंशतितमे दिनाङ्के आयोजयिष्यते। यात्रा प्रातः अष्टवादने श्रीगोविन्ददेवजीमन्दिरात् प्रारभिष्यते। उपमुख्यमन्त्री दीयाकुमारी यात्रा प्रस्थापयिष्यति। यात्रा हवामहलम्, बडीचौपड् तथा अल्बर्ट् हॉल् इत्येतानि स्थानानि अतिक्रम्य महाराणीमहाविद्यालयं प्राप्स्यति। तत्र प्रातः दशवादने स्वागतकार्यक्रमः सांस्कृतिककार्यक्रमाश्च प्रारभिष्यन्ते।
यात्रायां पारम्परिकक्रीडानां क्रीडकाः तथा आखाडानां मल्लाः सम्मिलिताः भविष्यन्ति। मल्लखम्बस्य तथा पारम्परिकक्रीडानां प्रदर्शनमपि भविष्यति। लोकपरम्परायाः ध्वजैः, लोकवाद्यैः, पारम्परिकवेषभूषाभिः तथा सांस्कृतिकप्रस्तुतिभिः राजस्थानस्य लोकसंस्कृतेः विविधाः स्वरूपाः प्रदर्शयिष्यन्ते।
महाराणीमहाविद्यालये यात्रायाः पारम्परिकरीतिरिवाजैः स्वागतं भविष्यति। छात्राभिः तिलकं कृत्वा, कच्छीघोडीनृत्येन, शहनाईवादनेन तथा ढोलनगाडैः यात्रायाः स्वागतं करिष्यते। मुख्यसभागारे वैदिकमङ्गलाचरणं, लोकनृत्यं, माण्डगायनं, भवई, चरी, कालबेलिया, कच्छीघोडी तथा कठपुतलीनृत्यं सहितं लोकगीतानां प्रस्तुतयः भविष्यन्ति। लोकसाहित्ये तथा लोकसंस्कृतौ आधारितानि व्याख्यानानि तथा ‘लोके भारतम्’ ‘लोकसाहित्यं च संस्कृतिश्च’ इत्येतयोः विषययोः संवादाः अपि भविष्यन्ति।
यात्रायां बाबा रामदेवजी, वीरतेजाजी तथा सन्तरविदासजी इत्येतेषां सम्बद्धाः झांक्यः अपि सम्मिलिताः भविष्यन्ति। परिसरे लोकपरम्पराभिः तथा वीरवीराङ्गनाभिः सम्बद्धाः प्रदर्शन्यः आयोजिताः भविष्यन्ति।
महाराणीमहाविद्यालये मुख्यसभागारस्य अतिरिक्तं संगोष्ठीसभागारे तथा मुक्तमञ्चे अपि विविधाः कार्यक्रमाः भविष्यन्ति। संगोष्ठीसभागारे जयपुरस्य लोककलायाः संस्कृतेश्च विषये प्रश्नोत्तरी, ‘लोकपरम्पराः’ इति विषये लोकसंवादः तथा ‘वयं भारतस्य जनाः अस्माकं भाषा अस्माकं च परिचयः’ इति विषये गोष्ठी आयोजिता भविष्यति।
मुक्तमञ्चे संस्कृतसम्भाषणं, जादुप्रदर्शनं, लोकरङ्गः, लोककथा, लोककविता तथा लोकस्मृतिभिः सम्बद्धाः कार्यक्रमाः भविष्यन्ति। ‘वयं भारतस्य जनाः संविधानं लोकसंस्कृतिश्च समन्वयः’ इति विषये अपि कार्यक्रमः आयोजितः भविष्यति। इतिहाससङ्कलनसमित्याः पक्षतः इतिहासलेखनस्य लोकपरम्परायाः वंशावल्याश्च प्रस्तुतीकरणं भविष्यति।
परिसरस्य विभिन्नेषु उद्यानेषु लोककला, लोकविज्ञानम्, भारतीयसंविधानम्, गुरुकुलं भारतीयशिक्षापरम्परा च, राजस्थानस्य वीरवीराङ्गनाः तथा औषधीयपादपाः इत्येतैः सम्बद्धाः प्रदर्शन्यः आयोजिताः भविष्यन्ति। साहित्येन लोकसंस्कृत्या च सम्बद्धाः विविधाः विक्रयकक्षाः अपि स्थापिताः भविष्यन्ति। क्रीडाङ्गणे कबड्डी, रज्जुकर्षणं, धनुर्विद्या इत्यादीनां पारम्परिकक्रीडानां गतिविधयः आयोजयिष्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani