मध्यप्रदेशे सार्धत्रिलक्षाधिकाः शासकीयाः नियुक्तयः भविष्यन्ति, नीमचे शीघ्रमेव विमानस्थानकस्य निर्माणम् आरप्स्यते, मुख्यमन्त्रिणा कृता घोषणा
भोपालम्, २० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अघोषयत् यत् नीमचे शीघ्रमेव विमानस्थानकस्य निर्माणं भविष्यति। क्रीडासुविधानां विस्ताराय सर्वसुविधा-सम्पन्नं क्रीडाङ्गणं निर्मास्यते। सः अवदत् यत् प्रदेशे विगतेषु सार्धद्विव
नीमच में सेवा से संकल्प अभियान के अभिनंदन कार्यक्रम को संबोधित करते हुए मुख्यमंत्री डॉ. यादव


भोपालम्, २० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अघोषयत् यत् नीमचे शीघ्रमेव विमानस्थानकस्य निर्माणं भविष्यति। क्रीडासुविधानां विस्ताराय सर्वसुविधा-सम्पन्नं क्रीडाङ्गणं निर्मास्यते। सः अवदत् यत् प्रदेशे विगतेषु सार्धद्विवर्षेषु एकलक्षाधिकाः नियुक्तयः कृताः। अग्रिमेषु सार्धद्विवर्षेषु सार्धत्रिलक्षाधिकाः नियुक्तयः पुनः करिष्यन्ते।

मुख्यमन्त्री डॉ. यादवः रविवासरे नीमचस्य अग्रोहाभवने आयोजिते ‘सेवासङ्कल्पा-भियानस्य’ अभिनन्दनकार्यक्रमे जनान् सम्बोधयन् एतत् अवदत्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सार्वजनिकजीवने सेवायाः २५ वर्षाणि पूर्णानि जातानि इति उपलक्ष्ये सः तस्मै शुभकामनाः अयच्छत् तथा च देशं विकासमार्गे अग्रे नेतुं तेन कृतस्य योगदानस्य उल्लेखं कृतवान्।

मुख्यमन्त्री अवदत् यत् १७ सेप्टेम्बरतः १७ अक्टोबरमासपर्यन्तं प्रदेशे ‘सेवासङ्क-ल्पाभियानम्’ सञ्चाल्यते। अभियानस्य अन्तर्गतं सर्वेषु जनपदेषु सेवा-जनसहभागिता-जनकल्याण-सम्बद्धाः विविधाः गतिविधयः आयोज्यन्ते। सः अवदत् यत् सङ्कल्पेन एव शक्तेः विकासस्य च मार्गः प्रशस्यते। प्रदेशसर्वकारः एतया भावनया निरन्तरं कार्यं करोति। सः नीमचस्य विकासस्य, नागरिकाणां संलग्नतायाः उद्यमशीलतायाः च प्रशंसां कृतवान्। सः अवदत् यत् १७ सेप्टेम्बरे आयोजितं ‘आशीर्वादस्य दीपः’ इति कार्यक्रमः सनातनपरम्परायाः भारतस्य समृद्धसांस्कृतिकपरम्परायाश्च प्रतीकम् अस्ति।

प्रदेशस्य आयव्ययके तथा रोजगारस्य क्षेत्रे उल्लेखनीयवृद्धिः

मुख्यमन्त्री अवदत् यत् मध्यप्रदेशस्य शिक्षावित्तं प्रायः पञ्चसहस्रकोटिरूप्यकेभ्यः वर्धित्वा अष्टत्रिंशत्सहस्रकोटिरूप्यकाणि अभवत् तथा च प्रदेशस्य समग्रबजट् वर्धित्वा ४ लक्षं ४८ सहस्रकोटिरूप्यकाणि अभवत्। प्रदेशे प्राथमिकशिक्षाक्षेत्रे विद्यालयत्यागिदरस्य शून्यत्वं महत्त्वपूर्णा उपलब्धिः इति सः अवदत्। सः अवदत् यत् प्रदेशस्य प्रतिव्यक्त्यायः एकलक्षसप्तति-सहस्ररूप्यकेभ्यः अधिकः अभवत्। विद्युदुत्पादनं ३२ सहस्रमेगावाट्-परिमाणात् अधिकं जातम्। वर्षे २००२ तमे प्रदेशे प्रायः पञ्च चिकित्सामहाविद्यालयाः आसन्, अधुना तु ३३ चिकित्सा-महाविद्यालयाः सञ्चाल्यमानाः सन्ति, येषु प्रायः अष्टसहस्रं स्थानानि उपलब्धानि सन्ति।

सः अवदत् यत् विगतेषु वर्षेषु प्रदेशे पञ्चलक्षकिलोमीटर-परिमाणात् अधिकाः मार्गाः निर्मिताः सन्ति तथा च प्रमुखनगराणां सम्पर्कव्यवस्था द्रुतमार्गैः अधिका सुदृढा क्रियते। सः अवदत् यत् क्रीडासुविधानां विस्तारात् जनपदस्य युवभ्यः क्रीडाप्रतिभाभ्यश्च अग्रे वर्धनस्य उत्तमाः अवसराः प्राप्स्यन्ते।

चीताप्रकल्पः नीमचाय महत्त्वपूर्णा उपलब्धिः इति कथितः

मुख्यमन्त्री अवदत् यत् अद्य चीताप्रकल्पस्य अन्तर्गतं नीमचस्य खिमलाक्षेत्रे एका मादा चीता विमोच्यते। सः एतत् जनपदस्य कृते महत्त्वपूर्णाम् उपलब्धिं कथितवान्। सः अवदत् यत् मध्यप्रदेशः वन्यजीवानां पर्यावरणस्य च संरक्षणस्य क्षेत्रे निरन्तरं कार्यं करोति।

सः अवदत् यत् भारतं विश्वस्य अग्रणीदेशानां पङ्क्तौ वर्तते तथा च वर्षे २०४७ तमे विकसितभारतस्य सङ्कल्पं साकारयितुं दिशि अग्रे गच्छति। भारतं विश्वस्य बृहत्तमं लोकतन्त्रम् अस्ति तथा च न्यायपालिका संवैधानिकसंस्थाश्च लोक-तान्त्रिकव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति। अन्ताराष्ट्रियव्यापारेषु सन्धिषु च भारतं स्वस्य राष्ट्रहितानां कृषकहितानां च प्राथमिकतां दत्तवान् इति सः अवदत्। ब्रिक्स-शिखरसम्मेलनस्य उल्लेखं कुर्वन् सः अवदत् यत् भारतस्य वैश्विकभूमिका निरन्तरं सुदृढा जाता अस्ति तथा च देशः प्रमुखाभिः अर्थव्यवस्थाभिः सह स्कन्धं निक्षिप्य अग्रे गच्छति।

कार्यक्रमे विधायकाः दिलीपसिंहपरिहारः, अनिरुद्धमाधवमारू, नगरपालिकाध्यक्ष स्वातिचोपडा तथा वन्दनखण्डेलवालः अपि सम्बोधितवन्तः। कार्यक्रमे मुख्यमन्त्री डॉ. यादवः ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं उत्कृष्टकार्यं कृतवद्भ्यः जनेभ्यः प्रमाणपत्राणि प्रदाय सम्मानितवान्। अभियानस्य सहभागीभ्यः नागरिकेभ्यः, जनप्रतिनिधिभ्यः, अधिकारिभ्यः कर्म-चारिभ्यश्च तथा विभिन्नेभ्यः सङ्गठ-नेभ्यः सः प्रशंसां कृतवान्।

Hindusthan Samachar / Divya Ranjan