Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, २० सेप्टेम्बरमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः रविवासरे अवदत् यत् ओडिशा-छत्तीसगढयोः मध्ये दीर्घकालात् प्रचलतः महानदीजलविवादस्य शीघ्रं समाधानं भवितुम् आशा अस्ति। द्विदिवसीय-ओडिशाप्रवासाय भुवनेश्वरं प्राप्तः सायः विमानस्थानके पत्रकारैः सह वार्तालापे एतद् अवदत्।
सायः अवदत् यत् महानद्याः विषयम् आधृत्य नवदिल्ली इत्यत्र ओडिशायाः छत्तीसगढस्य च मुख्यमन्त्रिणोः मध्ये वार्ता सम्पन्ना अभवत्। सः अवदत् यत् विवादस्य समाधानाय उभाभ्यां राज्याभ्यां केन्द्रीय-जलायोगस्य निर्णयं स्वीकर्तुं सहमतिः प्रकटिता अस्ति। केन्द्रीयजलायोगः यः कश्चित् निर्णयं करिष्यति, उभे राज्ये तं स्वीकुरुतः।
छत्तीसगढस्य मुख्यमन्त्री अवदत् यत् सम्प्रति महानदीं प्रति कश्चिदपि जलविवादः नास्ति। सः अवदत् यत् येषु राज्येषु भाजपासर्वकाराः सन्ति, तत्र जलसम्बद्धविवादानां समाधानस्य दिशि सकारात्मकप्रगतिः अभवत्। ओडिशायां छत्तीसगढे च भाजपासर्वकारस्य तथा केन्द्रे एनडीए-सर्वकारस्य विद्यमानत्वात् महानदीसम्बद्धस्य विषयस्य शीघ्रं समाधानस्य आशा अस्ति।
सायः स्वस्य ओडिशाप्रवासस्य अवधौ पुरीं गत्वा भगवान् श्रीजगन्नाथस्य दर्शनं कृत्वा राज्यवासिभ्यः तस्य आशीर्वादं प्रार्थयितुं वदत्। ततः पूर्वं सः भुवनेश्वरस्थिते लिङ्गराजमन्दिरे दर्शनपूजनं करिष्यति। अनन्तरं पुरीं गत्वा श्रीजगन्नाथमन्दिरे दर्शनं करिष्यति। सायंकाले तस्य श्रीमद्भागवतकथास्थले गमनस्य कार्यक्रमः अस्ति। सः पुरीस्थे एकस्मिन् निजीविश्रामगृहे रात्रिविश्रामं करिष्यति।
ओडिशाप्रवासस्य अवधौ मुख्यमन्त्रिणः विष्णुदेवसायस्य मुख्यमन्त्रिणा मोहन-चरण-माझिना सह सभापि प्रस्ताविता अस्ति। सभायां महानदी-जलविवादस्य समाधानसहितयोः राज्ययोः सम्बद्धेषु विविधेषु विषयेषु चर्चा भवितुं सम्भावना अस्ति। सायः सोमवासरे अपराह्णे प्रायः १:२५ वादने रायपुरं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan